________________
१३२.
व्याश्रयमहाकाव्ये
[ जयसिंह: ]
त्वेन गोचर इत्यर्थः । यद्वा शुचिः शोको म्लायतिम्लानिः खेदि - दैन्यं धात्वर्थास्तेषामाधारत्वेन विषयः ||
यच्चानीपत्करं कृत्यं तत्रापीषद्वचं त्वया ।
सुवचं दुर्वचमपि सज्जनैर्हि सतां पुरः || ३५ ॥
३५. अनीषत्करं च न केवलं सुखसाध्यं दुःखसाध्यं च यत्कृत्यास्ते तत्रापि विषये त्वयेपचमनायासेन वक्तव्यं दुःसाध्यमपि निःशङ्कमुच्यतामित्यर्थः । हि यस्माद्दुर्वचैमपि कष्टहेतुत्वादुःखेन वाच्यमपि सतां साधूनां पुरः सज्जनैः सुवचमुभयेषामपि साधुत्वेनैक्यात् ॥
ईषन्म्लानंभवं स्वातंभवं वा दुःस्थिरंभवम् ।
कस्माच्वया त्वदार्त्या यदीपदार्द्रकरोम्यहम् || ३६ ||
३६. यद्यस्मात्त्वदायी कहमीपदे करोनायासेनार्द्रचित्तीक्रियेतिपीड्य इत्यर्थः । तस्मादहो नर त्वं वदेतिगम्यते । कस्माद्धेतोस्त्वयेषन्म्लानंभवमीषदनायासेन म्लानीभूयते स्वार्तंभवं वा सुखेनातभूयते च । दुःस्थिरंभवं वा विमनस्कत्वेनात्र दुःखेन स्थिरीभूयते च ॥
सुविक्लवंकरः कच्चिदसिदुर्विक्लवं करैः । द्विह्निर्दुःशासनैर्दुर्योधनैर्दुर्दर्शनैरथ ॥ ३७ ॥
1
३७. कच्चिदिष्टपरिप्रश्ने । असि त्वं द्विङ्गिः शत्रुभिरथ किं सुविक्लवंकरः सुखेन विक्लवीक्रिय से परिभूयस इत्यर्थः । किंभूतैः । दुर्द
१ ए सी डी ध्यं च. २ डी 'येप° डी 'दाद्रक.. ५ ए सी डी स्वातांभ सीडी से भू.
Jain Education International
३ ए सी डी 'चनम ४ बी सी ६ ए सी डी च । दुस्थि. ७ ए
For Private & Personal Use Only
www.jainelibrary.org