________________
१२६
घ्याश्रयमहाकाव्ये
[जयसिंहः]
वान्तरं गत्वा त्वया सह सुखं त्वयाविरहितत्वेनैव सुखकारि पयःपानं दुग्धपानं करिष्यामि । एषा हि नागभार्या । नागानां च दुग्धमेव प्रियमित्युक्तं पयःपानं करिष्यामीति ॥
राजाच्छादनवस्त्रा प्रानन्दनी रमणीषु या । प्रसादकारणात्ते सा यायां प्रपतनं न वा ॥ २४ ॥
२४. याहं प्राक्प्राचि काले ते तव प्रसादकारणात्प्रसादाद्धेतो रमन्ते कान्तेषु रमण्यस्तास्वन्यभार्यासु मध्ये नन्दनी समृद्धा मुख्येत्यर्थः । अभूवम् । कीहक्सती । राजाच्छादनानि राजभिः परिधेयान्यतिश्रेष्ठानीत्यर्थः । वस्त्राणि यस्याः सा साहं ते प्रपतनं झम्पादानस्थानं न वा यायां काका किं तु यातुमर्हामि । “शतार्हे कृत्याच" [५. ४. ३५ ] इत्यर्हे सप्तमी । त्वया सहास्म्यपि झम्पां दास्यामीत्यर्थः ॥
भोजनाच्छादने लुब्धा प्राप्ते प्रस्कन्दनं त्वयि । इध्मव्रश्चनगोदोहनीभृत्स्थास्यामि किं न्वहम् ॥ २५॥
२५. त्वयि प्रस्कन्दनं कूपे पतनाय तत्तटं प्राप्ते सति भोजनाच्छादने भोजने वस्त्रे च लुब्धा सती किं न्वहं स्थास्यामि । कीदृशी । इध्मवश्वनगोदोहनीभृत्काष्ठभारानयनाय गवां दोहनाय च परशुपारिकाधारिणी । इदमुक्तं स्यात्पतिं विना हि ‘िया भोजनायाच्छादनाय च काष्ठभारानयनगोदोहनादिनीचकर्माण्येव कार्याणि तान्यहं पतिमनुगच्छन्ती नैव करिष्यामीत्यर्थः ॥
१ बी नां हि दु°. २ ए सादाद्धे. ३ ए समुद्रा मुखेत्य°. सी डी समुद्रा मु. ४ बी °द्धा सुखेल्यौं. ५ बी साहं. ६ डी स्त्रियो भो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org