SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ । है. ५.३.१११.] त्रयोदशः सर्गः । १२५ केशवस्त्रगृहवासनादिका क्रिया सा का। कोर्थः । कर्पूरहेतुकं किं विलेपनं क्रियते मण्डनं वा केशादिवासना वेत्यादिः । एवं कस्तूका च कारिका । चन्दने का कृतिस्तथागरौ का कृत्या क्रिया तथा स्रक्षु पुष्पमालासु च का क्रियेत्येवंप्रकारेण पुरा पूर्व मया पृष्टस्य तव प्रत्येकमेकं कर्पूरादि प्रति सर्वा विलेपनादिका समस्ता कारि(रिः) कारिका कृतिः कृत्या क्रिया चेत्येवंविधं प्रेमातिशयोत्थमुक्तं वचनम् ।। ममैधोभक्षिकोत्पेदे धारयामीक्षुभक्षिकाम् । यो ते तां मुश्च मेन्ताय यत्त्वदापद्विपूचिका ॥ २२ ॥ २२. यद्यस्मात्त्वदापद्विपूचिका तवापदेव विपूचिका मरणान्त उदरमहारोगस्त्वज्जीविताया मेन्ताय मृत्युहेतुरस्ति तस्मान्ममैधोभक्षिका काष्ठभक्षणमुत्पेदेवश्यकर्तव्यतया संपन्नेत्यर्थः । मृत्युहेतावुपस्थिते हि सत्त्वाधिकाः काष्ठभक्षणादि कुर्वन्ति । तस्माद्यामिक्षुभक्षिकामिनुभक्षणं ते तुभ्यं धारयामि तां मुञ्च । अनृणीभूयैव हि काष्ठभक्षणं क्रियत इति स्थितिः॥ अरोचकः कारिकायां जीविते भाषणे च मे । पयःपानं सुखं प्रेत्य करिष्यामि त्वया सह ॥ २३ ॥ २३. मे मम कारिकायां भोजनादिक्रियायां जीविते भाषणे च विषये न रोचतेत्रारोचको रोगविशेषोरुचिरित्यर्थः । तस्मात्प्रेय भ १ ए ममेधो . २ ए सी डी यां त तां. ३ सी डी मेताय. ४ बी 'द्विशूचि . १ बी केसव. २ बी सी डी यादि । ए. ३ सी डी °थागुरौ. ४ ए सी डी तत्र प्र°. ५ बी सी डी रिका कृ. ६ बी द्विशूचि . ७ बी विशूचि०. ८ ए. सी डी मेताय. ९ वी गमेधीम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy