SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ११४ व्याश्रयमहाकाव्ये [जयसिंहः] न्यायम् । अत्र “इणोभ्रेषे" [ ७५] इति घञ् ॥ अभ्रेष इति किम् । न्ययम्॥ पर्यायः । अत्र “परेः क्रमे" [ ७६ ] इति घञ् ॥ अस्याश्रमविशायः । राजोपशाय । अत्र “व्युपाच्छीङः” [ ७७ ] इति घञ् ॥ वसन्ततिलका छन्दः ॥ पुष्पावचायसुफलोचयपल्लवाद्यो चायैरचौर्यकुसुमावचये वने तैः । आकायचिद्भिऋषिभिर्विहितातिथेयः स्थित्वा नृपो निजनिकायमगात्सुकायः ॥ ८१ ॥ ८१. सुकायः शोभनमूर्ति पो निजनिकायं स्वावासमगात् । किं कृत्वा । चौराणामुच्छेदाद विद्यमानश्चौर्येण कुसुमानामवचयत्रोटनं यत्र तस्मिन्वने स्थित्वोषित्वा । यत आकायं यज्ञाग्निभेदं चिन्वन्त्याहुतिभिरुपचितीकुर्वन्ति ये तैर्यायजूकैरित्यर्थः । तैः प्रसिद्धैर्ऋषिभिर्विहितातिथेयः कृतातिथ्यः । कैः कृत्वा । पुष्पावचायसुफलोचयपल्लवाद्योच्चायैर्भावानयने द्रव्यानयनमित्यवचीयमानैः पुष्पैरुच्चीयमानः सुफलैरुच्चीयमानैः पल्लवाद्यैः पल्लवपत्रादिभिश्चेत्यर्थः ॥ पुष्पावचाय । पल्लवाद्योच्चायैः । अत्र "हस्त०" [ ७८ ] इत्यादिना घञ् ॥ उदो नेच्छन्त्यन्ये । फलोञ्चय । अस्तेय इति किम् । अंचौर्यकुसुमावचये ॥ आकाय । सुकायः । निकायम् । अन्न “चिति०" [ ७९ ] इत्यादिना घम् । आदेः कश्च ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्तौ द्वादशः सर्गः समर्थितः ॥ - १बी द्भिऋषि'. २ बी थेय स्थि. १ एम् । न्याय . २ बी शायः । अ. सी डी शायः । इत्यत्र. ३ ए सी 'द्वैरुषि . बी बैऋषि'. ४ डी लवप. ५ बी चयः । अॅ. डी चयं । अ. ६ ए अचोर्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy