________________
११२
घ्याश्रयमहाकाव्ये
[ जयसिंहः ]
रभाजः प्रस्तारं सामगणनाङ्गभूतानामुदुम्बरकाष्ठकुशानां रचनाविशेष भजन्तः ॥ परिभावं परिभवः । अत्र "भुवोवज्ञाने वा" [६४ ] इति वा घञ् ॥ परियाह । इत्यत्र “यज्ञे ग्रहः” [ ६५ ] इति घञ् ॥ संस्ताव । इत्यत्र “संम्तोः” [ ६६ ] इति घञ् ॥ प्रेस्रावैः । अप्रगावाः । प्रस्तावे । अत्र "प्रात्स्रुद्रुम्तोः" [ ६७ ] इति घञ् ॥
प्रस्तार । इत्यत्र “अयज्ञे स्वः'' [ ६८ ] इति घञ् । प्रस्तारो हि सामर्गण. नाङ्गं न तु यज्ञाङ्गमिति घञ् ॥ अयज्ञ इति किम् । बर्हिष्प्रस्तरैः ॥
विस्तारे । अत्र “वे०" [ ६९] इत्यादिना घञ् ॥ प्रथन इति किम् । लताविस्तरे ॥ अशब्द इति किम् । ऋग्विस्तरेण ॥ वैश्वदेवी छन्दः ॥ विप्रा विष्टारास्तारपश्यादिगीतेर्विश्रावोगारान्कुर्वतां निर्निगाराः। नीवारोत्काराश्यामकानां निकारांचोच्चैर्विक्षावा निर्भया निर्खनन्तु
॥७९ ॥ ___ ७९. विप्रा निर्निगारा निगाराद्रक्षोभक्षणानिर्गताः सन्तो विश्रावोद्गारान् विश्रावान्विविधश्रवणान्युद्गारांश्चोच्चारणानि च कुर्वतां कुर्वन्तु । कस्याः । विष्टारास्तारपङ्क्त्यादिगीतेर्विष्टारास्ताराभ्यां परे ये पती ते आदी यस्याः सा या गीतिश्छन्दस्तस्या विष्टारपङ्क्त्याख्यस्यास्तारपत्याख्यस्य च छन्दस इत्यर्थः । यद्वा । यस्या आदौ विष्टारपतिरास्तारपतिश्चच्छन्दोविशेषौ स्तस्तस्या गीतेः सामविशेषस्येत्यर्थः । तथा नीवारोत्कारान्वनव्रीहिसमूहाञ् श्यामकानामारण्यकधान्यभेदानां च निकारांश्च राशींश्च नि नन्तु । किंभूताः सन्तः । निर्भया रक्षोभयरहिता अत एवोच्चैरुदात्तो विक्षावैश्छिक्का येषां ते ॥
१ ए सी डी गणाना. २ ए सी डी रिभावः. ३ ए सी डी प्रस्तावैः. vडी गणाना. ५ ए सी बहिष्प्र. ६ बी भयान्नि. ७ सी डी वस्थिक्का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org