SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] 9 3 ४१. निशाटा नृभटान्नरो ये भटास्तान् भीरुकतां भयमनैषुः प्रापयन् । किंभूताः । भासुरमेदुराङ्गास्तेजस्विस्थूलकाया बलिष्ठा इत्यर्थः । तथाच्छिदुरा मिथो विच्छेदरहिताः संहता इत्यर्थः । यद्वा शस्त्रविद्यानैपुणेन शस्त्राणामागच्छतां वञ्चकत्वाच्छस्त्रकृतच्छेद र हिता इत्यर्थः । तथाविभीलुका निर्भीका: । नृभटानपि किंभूतान् । अविभङ्गुरान् न स्वयं भङ्गशीलां शूरत्वेन रणादनंष्टन् बलिष्ठत्वेन न जीर्ण काष्ठवन्निःसारान्वा तथा भिदुरेतरान्स्वयं भेदनशीलेभ्योन्यान् मिथः संहतान्प्रहारवञ्चकान्वेत्यर्थः । तथाभीरून । नन्वेवं समानगुणत्वान्नृभटा निशाटैः कथं भीतिं प्रापिता इत्याह । यश्छलानां मायाप्रयोगाणां विदुरा ज्ञातारः ॥ विभङ्गुरान् । भासुर । मेदुर । इत्यत्र “भञ्जि० " [ ७४ ] इत्यादिना घुरः ॥ विदुराः । अच्छिदुराः । भिदुर । इत्यत्र " वेत्ति ०" [ ७५ ] इत्यादिना किद्दुरः ॥ अभीरून् । भीरुकताम् | अविभीलुकाः । अत्र “भिय०" [ ७६ ] इत्यादिना रुरुकलुकाः ॥ अभिसृत्वरैर्जित्वर हिंस्रदीप्रैरविकम्रकम्प्रेत्वरनश्वरास्तैः । नृभटा यशः स्मेरमजस्रपुष्टं परिगत्वरं नागणयन्विनम्राः ॥ ४२ ॥ ८८ ४२. नृभटाः स्मेरं विकस्वरमजस्रपुष्टं नानावदातैः सदा पोषितं यशा (शः ) परिगत्वरं विनश्वरं सन्नागणयन् । किंभूताः सन्तः । १ ए 'हिता संहिता. सी डी 'हिता इ. २ बी पुण्येन. ३ ए अभ.. ४ सी भङ्गनशी डी भङ्गेनशी. ५ बी " सूर.. ६ सी डी 'तस्थला. ७ बी यशोग, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy