SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [है० ५.२.७४. ] द्वादशः सर्गः । ८७ लादिप्रेरणशीलान्प्रजविनश्च वेगवतश्च भटानतियन्त्यतिप्रेरकत्वादतिवेगवत्वाच्ातिशेरत इतिशीला ये तैः ॥ परिभव्यनादर्यसमाक्षयित्विड्वमिवक्रजय्यभ्यमिघसरैस्तैः । पिशिता रैव्यथिभिर्युषण्डं समरैः सरिद्विश्रयि चात्र मुक्तम् ॥४०॥ ४०. तैः पिशिताद्मरैर्मांसभक्षकै राक्षसैः सरिद्विश्रयि सरस्वतीतटस्थं द्रुपैण्डं वृक्षौघोत्र जयसिंहबलोपरि मुक्तम् । किंभूतैः सद्भिः । परिभविष्वरिष्वनादरिणोवज्ञापरा असमाक्षयिणोक्षीणबला अस्थास्नवो वा त्विवमिवक्राश्चाग्निज्वालामोचिमुखाश्च ये जय्यभ्यमिघस्मरा जयिनो जिष्णूनप्यभ्यमन्ति जयाय साध्वभिमुखं गच्छन्ति ये तेषामपि घस्मरा अतिबलिष्ठत्वात्क्षयं नेतारस्तैरत एवाव्यथिभिः शत्रुभ्योभीरुभिरत एव च समरैः प्रसरणशीलैः ॥ वराक । भिक्षाक । लुण्टोकः । जल्पाक । कुट्टाक । अत्र "वृद्भि(डि ?)क्षि०" [ ७० ] इत्यादिना टाकः ॥ प्रसवि । प्रजवि । इत्यत्र "प्रात्सूजोरिन्” [ ७१ ] इतीन् ॥ जयि । अत्ययिभिः । अनादरि ॥ क्षीति शिक्षितोर्ग्रहणम् । असमाक्षयि । विश्रयि । परिभवि । वमि । अभ्यमि । अव्यथिभिः । अत्र “जीक्षि" [७२ ] इत्यादिना-इन् ॥ सृमरैः । घरमरैः । अद्मरैः । अत्र "सृघसि०" [ ७३ ] इत्यादिना मरक् ॥ अविभङ्गुरान्भासुरमेदुराङ्गा विदुराँश्छलानां नृभटानिशाटाः । भिदुरेतरानच्छिदुरा अभीरूनविभीलुका भीरुकतामनैषुः॥४१॥ १ ए मिविक्र. २ ए स्मरोस्त : । पि°. सी डी स्मरौस्तेः । पि°. ३ बी सी डी रास्थला. * बी पुस्तके समासे 'ख' इति प्रदर्शितं तदेव युक्तम् । १ ए °तिप्रेरकत्वादतिवे'. २ ए श्च ज ये. ३ ए सी डी टाक । ज'. ४ एत्र पूत्सजो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy