________________
व्याश्रयमहाकाव्ये
[ मूलराजः ]
प्रचेत औदार्य धार्मिकत्वादिगुणैः प्रकृष्टमनस्कात एव प्रचेता वरुणतुल्य तथा हे राजन् सौम्यत्वेन चन्द्रतुल्य हे राजन्नृप त्वं भुवः पृथ्व्या धूपतिर्धर्यानमुखं धूरिव धूः प्रथमः स चासौ पतिश्च धूर्पतिः । मुख्यस्वामीत्यर्थः । यद्वा धूर्भारस्तस्याः पतिर्धूपतिः । नित्यसापेक्षत्वात्समासः । भुवः कार्यप्राग्भारप्रभुरित्यर्थः । अत एव श्रियो राज्यलक्ष्म्या धूः पतिः । अत एव च कीर्तेर्धूपतिर्वर्तस इति ॥
४
अहर्पतिः । गीर्पतिः । धूर्पतिः । इत्येतेकृतविसर्गाः प्रचेता राजन्नित्ययं च कृतत्वाभावो " वाहत्यादयः " [ ५८ ] इति वा निपात्याः । पक्षे ॥ अहःपती । अहपतिः । गीः पतिः । गीपतिः । धूःपतिः । धूपतिः । प्रचेतोराजन् ॥
७८
सम्राट्स्वाराट्समस्तावछ श्रीदवच् श्रीजुषो जनाः । खूषोदक्षमगिरथास्मिन् सन्तो वाक्पतिसंनिभाः ॥ ११९ ॥
११९. तावच्छब्दः प्रक्रमार्थः । अस्मिन्पुरे सम्राट् राजाधिराजस्ताव - त्स्वाराट्समः परमैश्वर्यादिनेन्द्रतुल्योस्ति । तथा जना: श्रीदवद्धनद इव श्रीजुषस्तथा सन्तश्च विद्वांसश्च वाक्पतिसंनिभा वाचस्पतितुल्याः सन्ति । यतः क्षोदक्षमाः संगतार्थत्वान्महार्थत्वाच्च विचारसहा गिरो येषां ते । एतेनास्य पुरस्य स्वर्गता व्यञ्जिता ||
उथ्सर्पत्स्वच्छलावण्याः स्त्रियः प्रेक्ष्यात्र मन्यते ।
अफ्सु जाता अप्सरसो जम्भारिर्जलमानुषीः ॥ १२० ॥ १२०. अत्र पुर उसर्पदुल्लसत्स्वच्छं निर्मलं लावण्यं सौन्दर्य यासां १ सी अप्सु जा..
१ एचेतस् औ. सी डी 'चेता औ. २ सी डी 'त्वे च ३ बी एफ राजल ं. ४ एफ् 'तिः । धूः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org