SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [है० १.३.५७.] प्रथमः सर्गः । ७७ धये नराः प्रतीहाराः सन्ति । किंविधाः । उचितासु योग्यासु धूर्षु योग्यविज्ञापनादिषु राजकार्यप्राग्भारेषु दृढा धारणसमर्था एवंविधा अप्यविनीता विज्ञापकलोकवैमुख्यायैव स्युस्तन्निराकरणायाह । महत्सु पूजाहेषु वरिवस्यका उचितासनदानादिना सन्मानका विनीता इत्यर्थः । कायेन विनीता अपि वचसा मनसों चाविनीता विज्ञापकानां वैमुख्यायैव स्युस्तन्निराकरणायाह । गीर्षु चेत:सु च स्वच्छों अकुटिलवचसोकुटिलाशयाश्चेत्यर्थः ॥ गीर्षु । धूर्षु । द्वाएं । इत्यत्र “अरोः सुपि रः" [५७] इति रेफ एव । अरोरिति किम् । चेतःसु ॥ र इत्येव । महत्सु ॥ गीर्पतिर्गीपतिः सत्यमहर्पतिरहपतिः । वाक्तेजोभ्राजिलोकेस्मिन् कौ हि गी:पत्यहःपती ॥ ११७॥ ११७. अत्र प्रथमौ गीर्पत्यहर्पतिशब्दावनुवाद्यौ द्वितीयौ तु विधेयौ । तथाहि गीर्पतिर्वाचस्पतिः सत्यमवितथं गीपतिर्गिरां वाचां पतिः स्वामीति योन्वर्थस्तेनान्वितोस्तीत्यर्थः । तथाहर्पतिर्दिनकरः सत्यमहरुपतिस्तेजोभिरह्नां कारकत्वाद्यथार्थोह्नां पतिश्चास्ति । परमस्मिन्पुरे जने वाक्तेजोभ्राजि वाणीप्रतापाभ्यां सर्वोत्कृष्टत्वाच्छोभमाने सति गी:पत्यहःपती हि स्फुटं कौ । न कावपीत्यर्थः । इति काका व्याख्या ॥ त्वं भुवो धूर्पतिः कीर्तेधूपतिधू पतिः श्रियः। प्रचेतो राजन् प्रचेता राजन्नत्रेति गीणाम् ॥ ११८॥ ११८. अत्र पुरे गीरस्त्यर्थात् राज्ञि विषये । कथमित्याह । हे १ बीता ज्ञा. २ ए एफ लोके वै'. ३ ए सी सा वावि . एफ °सावि'. ४ डी तस्तु च. ५ सी च्छा कुटिलवचसोकु. एफच्छा अकुटिलाशया इत्य. ६ सी डी तस्सु ॥. ७ एफ गी:पतिवाच. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy