________________
[ है० ४.४.५१.] दशमः सर्गः ।
७८५ तीब्रोभिग्रहः कृतोथ वेत्यहं जानामीत्यर्थः । परमधुना संप्रति मां यदि त्वं न पाता स्वाङ्गसङ्गामृतास्वादनेन न रक्षसि । कीदृशीम् । अशक्रीं कामशरैर्जर्जरीकृतत्वात्किचिदपि कर्तुमसमर्थामत एवातिखेत्रीमत्यन्तं दीनीभवन्ती परितप्तीभव॑न्तीं वा । यत: खिदंपरिताप इति केचित्पठन्ति । कीदृशः संस्त्वं शकितापि समर्थोपि । अत एवाखेदिताप्यदीनोपि । तदा नन्विति प्रश्ने । पृच्छामि त्वां मां क वेदिता लभसे यतो मृत्युवेत्री त्वदुपेक्षायां कामाग्निदाहातिरेकेण मरणे वर्तमानां भृत्योर्लब्धी वाद्य श्वो वा मे मृत्यु वीति मृत्योर्विचारिकां वा । तस्माद्यत्कृत्यबोद्धापि यच्च तत्कृत्यं च यत्कृत्यं स्वयमखिन्नशक्तेन खिन्नाशक्तपालनलक्षणं महाधर्मकृत्यं तस्य बोद्धापि सर्वशास्त्रेषु लोके च प्रसिद्धत्वाज् ज्ञातापि सन्किमिति न बोधिता न जानासि तस्याकरणात् । तस्मान्मां रक्षेति तात्पर्यार्थः । यद्वा किं बहूक्तेन श्वेत्तापि । अपिरध्याहार्यः । जापवशेनाव्यक्तं वदन्नयनङ्गीकारान्मां त्यजन्नपि वाक्ष्वेदितृवव्यक्ताक्षर मामालपन्निवात्यजन्निव वा त्वं मया वृतो भर्तृत्वेन वरितः श्रितश्चासि यतः कीर्णहिया व्यक्तलजयेति ॥ कोपं जुघुलन्निजुगूहिषुः स्वं नृपः पुपूषन्नतितिक्षतैतत् । उड्डीनवद्विघ्नभयः स लग्नो ब्रह्मण्यनुड्डीनसमाधिशूनः ॥ ५२ ॥
५२. नृपः कर्ण एतदप्सरःकृतमनुकूलोपसर्गवृन्दमतितिक्षताक्षाम्यत् । कीदृक्सन् । कोपं जुधुक्षन्निरुन्धस्तथा स्वमात्मानं निजुगूहिषु१ ए पन्निति . २ सी उदीन. डी उडीन'. ३ ए भवः स. ४ ए °ण्यमुड्डी.
१ सी ग्रहं कृ. २ ए हः कुतो'. ३ ए °मर्थीम. ४ बी सी वन्ती वा. ५ एभते य. ६ ए त्योप्त्री वा. ७ ए °पि त्वत०. ८ बी सी त्यं य.९ ए °न्किगिति. १० ए डी क्तेनावे. ११ ए पव्यसेना. १२ ए प्यनंदगीकारान्यात्य. १३ वी ङ्गीकरा. १४ ए डी ई °पि श्वे. १५ए दिशव . १६ ए डी र नामाल. १७ ए निर्वा त्वं. १८ ए रिता श्रि. १९ बी सी डी निजगू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org