SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ ७६९ [है.. ४.४.३३.] दशमः सर्गः । वरिता स प्रसिद्धो देवः कामो धनुष्कम्पितिसंगृहीतीः अल्पस्वरत्वात्कम्पितेः प्राग्निपाते धनुषः संग्रहणानि कम्पनानि च चक्रे । यतो जयं ग्रहीतुं वर्षाबलेन प्राप्तुं शरैर्जगत्प्रावरिता व्याप्नुवन् । तटान्दरित्रीविंटपान्दरीत्रीनंदीः सुखं तेरिथ नाथ कचित् । सद्यो रतिस्त्वां वरिषीष्ट विस्तरिषीष्ट चेत्थं पथिकं प्रियोचे ॥२६॥ २६. प्रिया पथिकमूचे । कथमित्याह । कच्चिदिष्टपरिप्रश्ने । हे नाथ नदीः सुखं सुखेन तेरिथ । कीदृशीरतिजलापूर्णत्वेन तटान्दरित्रीविदारयित्रीस्तथा विटपान्वृक्षान्दरीत्रीः । तथा सद्यो नदीतरणानन्तरमेव त्वां रतिः सुखं निधुवनं वा वरिषीष्ट सेवतां तथा रतिर्विस्तरिषीष्टं च विस्तृणीयाच्चेति ॥ व्यस्तारिषुः षटुरणाः कदम्बान्यावारिषुर्वासवकार्मुकं च । समास्तरिष्टाम्बरमावरिष्ट व्यस्तीष्टं गां प्राकृत शावलं च ॥२७॥ ___ २७. षटुराँ भृङ्गा व्यस्तारिषुर्बाहुल्याद्विस्तृता अत एव कर्दम्बानि कदम्बतरुपुष्पाणि कर्मावारिषुराच्छादयन् । वर्षासु हि धारीकदम्बाः पुष्प(प्य ?)न्ति । तथा वासवकार्मुकं चेन्द्रधनुश्च समास्तरिष्ट विस्तृतमत एवाम्बरं व्योमावरिष्ट व्याप । तथा शाड्वलं च । जातावेकवचनम् । सस्येन हरितानि स्थानकान्युपचाराद्धरिततृणानि वा व्यस्तीर्दीत एव गां पृथ्वी प्रावृत ॥ १ ई कश्चित्. २ ए °मासरि'. १ ए ता सः प्र. २ बी कम्पति'. ३ ए सी डी नि चक्रे. ४ सी डी 'यं गृही. ५ डी ष्टप्र. ६ एट वि. ७ ए याश्चेति. ८ ए णाभ्यङ्गा. ९ ए दम्बोनि. १० ए बी सी पुष्पाणि. ११ सी डी राभिः क. १२ ए वान्तरं. १३ ए °तनृणा. १४ सीवृतः ॥. ए वृतः ॥ नृषी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy