________________
७५६
ध्याश्रयमहाकाव्ये [कर्णराजः] कथमित्याह । आत्मजेन पुत्रेण कृत्वा त्वमभ्युदिया अभ्युदितपुत्रो भूया इत्यर्थः । तथा तत्स्पर्शसौख्यं पुत्रस्पर्शसुखं प्रतीया अनुभवेजीव॑न्पुत्रसुखं पश्येरित्यर्थः । तथा प्रमोदं पुत्रराज्याभिषेकायुद्भवं हर्ष प्रतिया इति । उ इति संबोधने । तैतिक नु शेते यन्नाद्यापि पुत्रो भवतीत्यर्थः ॥ तत्तस्माद्धेतोरहं वल्गूयच्छोभनमोजः सत्त्वं यस्य सोतिसात्त्विकोत एव शुचीभूय बाह्याभ्यन्तरमलप्रक्षालनेन निर्मलीभूय परिचीयमानमभ्यस्यमानं समाधि चित्तैकाग्र्यं चेचीयमानोत्यर्थं पोषयन्सन्मां लक्ष्मीदेवतामधियासं संस्मर्यासमास्तूयासं संकीर्तयेयम्। यतः कीदृशोहं संततीयन्संततिमिच्छंस्तथा भृशायमान: संततिप्राप्तौ त्वरमाणः । तथात्र जगति या लक्ष्मीरापदि मात्रीयतां मातरमिच्छतां नृणां क्रियाभिः पालनपोषणादिभिः कृत्वा मात्रीयते मातेवाचरत्यथाथ वा मात्रीभवति जनन्येव स्यात् सा लक्ष्मीरद्याहियमाणभक्तनिश्चलभक्तेर्मे मम तपसा जेहीय्यमाणात्यर्थमावीमाना सती कृपां दयां क्रियान्ममैवेत्थम् ॥
जेनीयते । अत्र “हनो शीर्वधे' [ ९९ ] इति नीः ॥ वध इति किम् । गतौ जङ्घनिता ॥ केचिद्धन्तेर्वधे नी-आदेशं वाहुस्तन्मते वधार्थेपि जवनितेति
स्यात् ॥
अभिधातः । धैर्यघाती । इत्यत्रै "णिति घात् " [ १०० ] इति घात् ॥ अघानि । जघान । इत्यत्र "मिणवि |न् " [१०] इति घन् ॥
१ई °था स्तत्स्प. २ सी सौत्यर्थः । तत्त'. ३ ए वेजीवन्पु. ४ बीडी 'वत्पुत्र. ५ ए ई त्रमुखं. ६ए तत्कं नु. ७ए चीय. ८ डी मस्य'. ९सी माधि. १० बी यमनो. ११ ई समां ल', १२ ए °णा मा. १३ बी चरित्य. १४ डी त्यथ. १५ बी निश्चिल'. १६ ई यत । अ. १७ ए नोधी वधे. १८ बीनीवधे. १९ ए ति घी ॥ व. बी सी डी तिनी॥ व. २० ए शं चाहु. ईशं नाहु. २१ बी जघनि. २२ ए ई धैर्यघा. २३ एत्र णिति. २४ ए घङ् इ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org