SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.९९.] दशमः सर्गः। ५५ मात्रीयतामापदि यात्र मात्रीयतेथ मात्रीभवति क्रियाभिः। क्रियात्कृपामह्रियमाणभक्त ह्रीय्यमाणा तपसाद्य सा मे ॥६॥ इत्थं सुतीयन्स वितयं दीपीकृतैर्दिवाभूतनिशं प्रदीपैः। श्रीवेश्म मालीकृतकेतु यातोदन्याशनायो विधनाय आपत् ॥७॥ ३-७. स कर्णः श्रीवेश्म लक्ष्मीदेवताभवनमापत्तोप । कीदृक्सन् । सुतीयन्पुत्रमिच्छन्नत एव याते विगते उदन्याशनाये भोजनेच्छोदकेच्छे यस्य सः। तथा विगत धनाँया धनेच्छा यस्य स निर्लोभश्च । कीदृशं श्रीवेइम । दीप्रीकृतैः प्रज्वालितः प्रदीपैः कृत्वा दिवाभूता दिवसीभूता निशा यत्र तत् । तथा मालीकृतकेतु पतीकृतध्वजम् । किं कृत्वा । वितळ । कथमित्याह । आजौ रणे योनेशन्नष्टः स मया नाघानि न हतस्तथाहं स्वयं चाजो नो नश्यामि ना. प्यनशं न नष्टस्तथाहं परस्त्रियो नाश्वं नागमं नावोचं नौलपं न चास्थं सतीत्वेन मद्वचोमन्यमाना नाह तिरश्चक्रे । नष्टप्रहारादीनि क्षात्रधर्मबाधकानि महापापानि मया न कृतानीत्यर्थः । ततो नु इति संशये । संशयितोस्मि कथमहं विसुतत्वदुःखेपुत्रत्वकष्टेपप्तं पतितः । तथा ध्यानमेव सदा विश्रामसुखहेतुत्वाच्छय्या येषां तैर्योगिभिरसंशय्य सम्यग्ज्ञानेन निश्चित्य मयि विषये यत्समुह्यते स्म चिन्तितम् । १ ए तेस मा. २ ई °भिः । कृया'. ३ ए तेयेही. ४ ए तर्का दी. ५ सी डी त् । पञ्चभिः कुलकम् । स. १बी ताभुव. २ ए प्राप् । कीदृन्. ३ सी डी यत्पुत्र. ४ ए न्याराना. ५ ए बी °दकोच्छे. ६ ए ता या ध. ७ई नाय ध. ८ ए दित्वाभू. ९ बी मिथ्याह. १० ई यं आजौ. ११ ए परिस्त्रियो. १२ बी भं नोवाचं. १३ ए नालंप न. १४ सी हं वसु. १५ ए म्यग्जाने. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy