________________
व्याश्रयमहाकाव्ये [कर्णराजः] स्तथा त्रपां रतिकाले लज्जां विहेयास्त्यज्या अत एव रैतिं सुखं देया इति । शार्दूलविक्रीडितं छन्दः ॥ गेयासं गीतैर्वां सुसूत्रेण मेयासं स्थेयासं चाग्रेवसेयासमंहः । अभ्यागात्तत्राथेति जेगीयमानं बन्धूनां स्त्रैणं कुङ्कुमापीतपॉणि
॥१६९ ॥ १६९. अथेत्यारम्भे । अथ विवाहारम्भकाले बन्धूनां वैधूवरस्वजनानां त्रैणं तत्रोद्वाहस्थानेभ्यागात्। कीदृग्जेगीयमानमत्यर्थं गायद्वद्वा । किमित्याह । हे वधूवरौ वां युवामहं गीतैर्विवाहोचितगानैर्गेयासं गायानि । तथाहं सुसूत्रेण सुष्टु कुमारिकांकर्तितत्वात्रुटितत्वादिशात्रोक्तगुणोपेतत्वाच्छोभनं यत्सूत्रं तेन कृत्वा मेयासं पुङ्खणं क्रियासमित्यर्थः । तथाहमने लवणोत्तारणाद्यर्थं युवयोः पुरः स्थेयासं ताहमहश्चक्षुर्दोषाशुद्भवं पापं कष्टमित्यर्थः । अवसेयासं लवणांद्युत्तारणेनान्तं नयेयमिति । तथावृत्त्या व्याख्याने जेगीयमानं कुटिलं गच्छत्सलीलगामीत्यर्थः । तथा कुङ्कुमेनापीता आरक्ताः पाणयो घुटिकाधोभागा अपि यस्य तत्कुङ्कुमपिञ्जरितसर्वाङ्गमित्यर्थः । एतेनास्याविधवत्वोक्तिः । वैश्वदेवी छन्दः ॥
१ई मेषासं. २ सी समहं । अं. ३ ई मह । अ. ४ ए अभ्यगात्तथे ५ ए पाणिः ॥. ई पाष्णि ॥.
१ ए त्रपा र. २ बी सी डी यास्त्याज्या. ३ बी रतिसु. ४ ई वरवधूस्व. ५ ए नमित्यर्थः गा. ६ई ° दत् । कि. ए दद्व्य कि. ७ ए वधौव. ८ ए °महंगी'. ९ ए संगीया. सी °सं गेया. १० ई काकीतितत्वात् त्रुटित्वादि. ११ ए दिशोस्रो . १२ ए गुणापे. १३ ए पुखणं. सी पुस्वणं. १४ ए 'हमहचक्षु०. १५ बी सी °णादुत्ता. १६ ई गीअमा'. १७ ई गामित्य. १८ ए पाणयो. १९ ई विधिवत्वोक्तिः, २० ई वी छ ।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org