SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.७०.] नवमः सर्गः 1 ७४१ असात असत | असाथाः असथाः । अत्र “सेनस्तत्रा वा" [ ६९ ] इति लुपि सत्यां वा-आत् ॥ कृथा मय्यप्रसादं मा विरुद्धा मेति वादिनं । भूपेकृत हियं वक्तुं सोपारुद्ध संखीं वा ॥ १५१ ॥ १५१. सामयणला हियं लज्जामकृतै । ततो भ्रुवा भ्रसंज्ञया सखीं सन्निहितवयस्यां वक्तुमुँपारुद्ध प्रेरितवती । क्व सति । भूपे कैर्णे । किंभूते । मयि विषयेप्रसादं मा कृथाँ मयि मा विरुद्धा विरोधं मा कृथा इति वादिनि ॥ सख्यूचे त्वमभाषिष्ठा अभाषिष्ट यथा सुहृत् । इमामन्वग्रहीः पृच्छन्यच्च सत्सु चकाधि तत् ।। १५२ ॥ I १५२. सख्यूंचे । हे महापुरुष त्वमिमां तथा भाषिष्ठा यथा सुहृन्मित्रमभाषिष्ट्रावादीत् । यच्च यत्पुनः पृच्छन्कुलादिकं प्रश्नयन्निमां कन्यमन्वग्रहीः । अस्यां यत्त्वं प्रसादं चैकथेत्यर्थः । तत्सत्सु सज्जनेषु त्वमेव चकाधि शोभव || 1 चकाद्व्यवहितः श्रोतासि चेदेषा हि नः सखी । अनया द्योतयामाहे कदम्बकुलमुज्वलम् ॥ १५३ ॥ १५३. चेद्यदि त्वं श्रोतासि भवसि तदावहितः सावधानः संश्चकाद्धि शोभव सावधानो भवेत्यर्थः । एषा कन्या हि स्फुटं नोस्माकं १ ए कृत्वा म. २ डी °नि नृपे ३ ए सखी श्रु. १ सी डी 'सात् अ. २ डी सतस्त ३ बी 'तस्ततो. ४ ए मुद्रारु. ५ ए कर्मे । किं . ६ ए °षयेः प्र० ७ सी 'थास्तथा म. ८ ए विरुद्धं मा कुद्ध इ. ९ ए ख्यूचो । हे. १० ए न्यायाम. ११ ए चकार्येत्य .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy