SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ७४.० व्याश्रयमहाकाव्ये [कर्णराजः] अच्छासीः । मा स्म सात् मा सासीत् । इत्यत्र “टेना” [६७] इत्यादिना वा सिचो लुप् ॥ अथ प्रथममाशङ्कितं कं चित्सुभगमेतेनापि स्त्रीरत्नेनाभिलष्यमाणतया धन्यं मन्यमानोसौ श्लोकद्वयेन स्तौति ॥ तीर्थतत स किं दानमतनिष्ट तपः स किम् । अतनिष्ठा रतिं यस्मिनुत्कण्ठामतथास्तथा ॥ १४९ ॥ १४९. स सुभगस्तीर्थे गयादौ किं दानमंतत ददावित्यर्थः । तथा स किं तपोतनिष्ट चक्रे यस्मिंस्त्वं रतिं मनःप्रीतिमतनिष्ठास्तथा यस्मित्रुत्कण्ठामतथाः॥ वरं कस्यासनिष्टोमा हरोसातासत स्मरः । असनिष्ठा दृशं यत्र मनोसाथा यशोसथाः ॥ १५० ॥ १५०. उमा गौरी कस्य वरं प्रसादमसनिष्टादात्तथा कस्य हरो वरमसात तथा कस्य स्मरो वरमसत । यत्र नरे त्वं दृशमसनिष्ठा दर्शनायादास्तथा यत्र मनोसाथा अनुरागेणादी अत एव यत्र यशो रूपगुणाद्यतिशयोत्था कीर्तिमसथाः ॥ अतते अतनिष्ट । अतथाः अतनिष्ठाः । असेत असनिष्ट । असथाः असनिष्ठाः। अत्र "तन्भ्यो वा' [ ६०] इत्यादिना सिचो लुब्वा । तत्संनियोगे नणयोश्च लुप्॥ १बी अतिनि. २ एस्मिन्नुत्कण्ठात. १ए °च्छासी । मा. २ सी डी मा म सा. ३ बी थमा. ४ ए °माशंसितं. ५डीतं किंचि. ६ ए मनत. ७ ए चक्रो य. ८ ए तथा ॥. ९ ए °सासद'. १०डीदात् अ. ११ए योत्था की .१२ एतता अ. १३ एनिष्टः । अं. १४ ए निष्टा । अ. १५ ए सता अ°. १६ एनिष्टाः । अ. १७ ए तन्यो वा. १८ ए लुप्त्वा । त° १९ए णवोश्च. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy