SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ ७२२ व्याश्रयमहाकाव्ये कर्णराजः ] स्यन्त्वा स्वेदमियं स्कन्वा मा गादिति सखीजनैः । अनास्कन्धाभ्युपस्कद्य पयः प्रस्यन्य धार्यते ॥११४॥ .. ११४. इयं कन्या स्वेदं प्रस्वेदं स्यन्त्वा क्षरित्वात एव स्कन्त्वा परिशुष्य मा गान्मा विने(न ?)शदित्यर्थः । इति हेतोः सखीजनैर्धार्यते जीव्यत इत्यर्थः । किं कृत्वा । अनास्कन्द्यापरिशुष्यं । स्नेहातिरेकादोर्द्रहदयीभूयेत्यर्थः। अत एवाभ्युपस्कद्याभिमुंख्येन समीपे गत्वा तथा पयो जलं प्रस्यन्द्य क्षरित्वा ॥ प्रस्यद्यालं पयः सख्यो गुधित्वालं जलाया । क्षुधित्वालं क्लिशित्वालमुदित्वा सेति मूर्छति ॥ ११५ ॥ ११५. सा कन्या मूर्छति । किं कृत्वा । उदित्वोक्त्वा । किमित्याह ।हे सख्यः पयः प्रस्यद्यालं जलश्रा(स्रा)वणेन सृतं तथा जलाया क्लिन्नवाससा करणेन गुधित्वालं परिवेष्टनेन मृतं तथा क्षुधित्वा बुभुक्षयालं तथा क्लिशित्वा युष्मक्लेशेनालमिति ॥ हृद्युषित्वा कुषित्वास्त्रं मृदित्वा क गच्छसि । अमृडित्वा रुदित्वेति सख्योस्याचुक्रुशुः स्मरम् ॥११६॥ ११६. अंमृडित्वासुखं कृत्वा रुदित्वा चास्याः सख्यः स्मरं चुकंशुः । कथमित्याह । रे स्मर क त्वं गच्छसि । किं कृत्वा हृद्यस्या १ डी त्वामुं क. २ ए त्वा ऋचित्वेति संख्यास्या'. १ डी घ्य । नेहा. २ बी दाद्रहृ. ३ ए त्यर्थात. ४ डी 'मुखेन. ५ बी. पेन ग'. ६ ई दित्वे । कि. ७ ए °णे निस. ८ ए असृत्वित्वा. ९ डी क्रुसुः । क. १० ई °ह । स्म. ११ ए र कथं ग. सी डी र कथं ग. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy