________________
[है० ४.३.२९.] नवमः सर्गः ।
७२१ शयिता पविते तल्पे स्मरबाणप्रधर्षिता।
सा पृच्छति तवोदन्तमुदण्डयितपक्षिणः ॥ ११२ ॥ ११२. सा कन्योदीच्या उत्तरस्या दिशो डयिता उड्डीना ये पक्षिणस्तान्कर्णपादिमी आगता इति तवोदन्तं कुशलवार्ता पृच्छति । किंभूता सती। स्मरबाणप्रधर्षिती कामास्त्रैः परिभूतात एव पविते पवित्रे तल्पे शयिता ॥
प्रस्वेदिताप्रमेदिता धैर्याप्रक्ष्वेदितापि सा ।
न मर्षितवती तापं सेवित्वाप्यम्बुजस्थितिम् ॥११३॥ ११३. सा कन्याम्बुजस्थिति कमलपत्रशय्यायामवस्थानं सेवित्वापि तापं स्मरोद्रेकोत्थं संतापं न मर्षितवती न क्षान्तवती पँद्मसेवया तस्यात्यन्तं समुल्लासात् । कीदृशी। प्रस्वेदिता सात्विकविकारोजृम्भणात्स्वेदं क्षरितुमारब्धा । तथा धैर्याप्रक्ष्वेदितापि धैर्येणामुक्ताप्यप्रमेदितामेदुरा कृशेत्यर्थः ॥
डयित । शयिता । पविते । प्रधर्षिता । अप्रक्ष्वेदिता । प्रस्वेदिता । अप्रमेदिता। इत्यत्र “न डी' [२७] इत्यादिनां कौ न किद्वत् ॥ मर्षितवती । इत्यत्र "मृषः क्षान्तौ” [ २८ ] इति न किद्वत् ॥ सेवित्वा । इत्यत्र "क्त्वा" [२९] इति किद्वन्न ॥
१ डी ताप से'.
१ ई उद्दीना. २ ई तात. ३ ए पठिते. ४ सी वित्रे. ५ ए ई ° न. ६ बी सी डी पद्मासे'. ७ ए. स्वेवि. ८ सी डी यितः । श. ९ए ना क्तो न. १० ए न किं वृत्. ११ एति विकि.
९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org