________________
६४
व्याश्रयमहाकाव्ये
मूलराजः] म् । किङ्करति । कैम्बु । न् । तन्वङ्गयः । चञ्चत् । कण्ठ्यः। कवुडोचि कण्ठः । रंरम्यन्ते । इत्यत्र "नां धु' [३९] इत्यादिना निमित्तवर्गस्यैवान्त्यः ॥ धुडिति किम् । अब्जन्म ॥ धुड्वर्ग इति किम् । रंरम्यन्ते ॥ अपदान्त इति किम् । लुठन् किंकरति ॥
पद्मान्युन्मधुलिंहीव सुदृश्यास्यानि सुभ्रुवाम् ।
चेतांसीहाच्छता षि पुंसां स्वःसिन्धुवारिवत् ॥ ९६ ॥ ९६. यथा पद्मान्युदूर्ध्व मधुलिहौ भृङ्गदंपती येषु तान्युन्मधुलिंहि भृङ्गमिथुनयुतानि स्युस्तथेह पुरे सुभ्रुवामास्यानि मुखानि सुदृशि रम्येक्षणद्वन्द्वानि सन्ति । पश्चार्द्ध स्पष्टम् ॥
पिण्डि गर्व मुखेनेन्दोः स्वःस्त्रीभ्यः स्वं विशिडि च । - इति शास्ति वदन्साधु स्त्रीजनेत्र सखीजनः ॥ ९७ ॥ __ ९७. अत्र पुरे सखीजन: साध्वनेकभङ्गीचतुरं यथा स्यादेवं वदन् सन् स्त्रीजने विषये शास्ति शिक्षा दत्ते । कथमित्याह । पिण्ढीत्यादि । अत्युत्कृष्टवृत्तत्वकान्तत्वादिश्रीशालिना मुखेन कृत्वा चन्द्रगर्वस्य चूर्णने तथातिशयितरूपादिश्रिया देवीभ्यः सकाशात्स्वस्य विशिष्टीकरणे च तवाधुनावसर इत्यर्थ इति ॥ "प्रैषानुज्ञा" [५.४.२९] इत्यादिनात्र पञ्चमी ॥ - म् । पुंसां । न् । सुदृशि । अच्छताजुषि । चेतांसि । उन्मधुलिंहि । इत्यत्र “शिड्डे" [४०] इत्यादिनानुस्वारः ॥ नामिति बहुवचनात् सुदृशीत्यत्र मत्वं बाधित्वानेनानुस्वार एव ॥ शिड इति किम् । इन्दोः ॥ अपदान्त इत्येव । बदन साधु ॥ अन्वित्येव । पिण्ड्डि । शिण्ड्डि । अत्र पिषशिषोहौं तस्य धित्वे पस्य डत्वे च शिडभावाच्छ्रनकारस्यानुस्वारो न भवति ॥
१ सी डी एफ् स्वस्त्री. १ एफ् कम्बुवत् । न्. २ सी डी धुटिति. ३ एफ न्म । रं. ४ सी डी न्ते । लु. ५ सी डी एफ जनवि. ६ एफ तेत्र क. ७ एफ् डेनुस्वार इत्यनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org