________________
[है० १.३.३८.] प्रथमः सर्गः । हती तत्संबोधनं हे पुत्रहति । तथाँ हे पुत्रजग्धि भक्षितपुत्रे त्वयेदं दुष्ठु कृतमिति स्त्रियं च ॥
पुत्रादिपुत्रपुत्रादिवर्जितेत्रोपहस्यते ।
पुत्रादिपुत्रपुत्रादिमत्स्यो न्यायः प्रचेतसः ॥ ९४ ॥ ९४. पुत्रादिनः पुत्रभक्षिणः पुत्रपुत्रादिनश्च पौत्रभक्षिणो मत्स्या यत्र स प्रचेतसोपांपतेर्वरुणस्य न्यायोत्र पुर उपहस्यतेल्लोकैः । यतः पुत्रादिपुत्रपुत्रादिवजिते पुत्रादी पुत्रसंहारी यः पुत्रपुत्रादी पौत्रसंहारी शाकिन्यादिलोकस्तेन वर्जिते रहिते ॥
पुत्रादिन् । पुत्रपुत्रादिन्निति नाक्रोशति । इत्यत्र “पुत्रस्य" [३८] इत्यादिना न द्विस्वम् ॥ आदिन्पुत्रादिनीति किम् । पुत्रहति पुत्रजग्धीति नाक्रोशति ॥ आक्रोश इति किम् । पुत्रादिपुत्रपुत्रादिवर्जिते पुत्रादिपुत्रपुत्रादिमत्स्यः । एषु "अदीर्घात्" [१.३.३२] इत्यादिना विकल्प एव ॥
कम्बुकण्ठ्योत्र तन्वनयश्चञ्चदजन्मलोचनाः। रंरम्यन्ते यद्भुवोग्रे लुठन्किङ्करति स्मरः ॥ ९५ ॥ ९५. अत्र पुरे तन्वङ्गयः कृशाङ्गयो जलक्रीडादिभी रंरम्यन्तेत्यर्थ क्रीडन्ति । कीदृश्यः । कम्बुः शङ्खस्तद्वद्वर्तुलस्त्रिरेखो मधुरस्वरश्च कण्ठो यासां तास्तथा चञ्चदब्जन्मलोचनाः विकस्वरेन्दीवराक्ष्यः यद्भुवोगे यासां भ्रवः पुरो लुठन्परिवर्तमानः स्मरः कामः किंकरति किंकरवदाचरति । अत्रत्यतन्वङ्गीनां यत्रं यत्र भ्रुवोनिक्षेपस्तत्र तत्र स्मरो विज़म्भत इत्यर्थः । किंकरोपि हि भक्तिविशेषख्यापनाय स्वामिनोग्रे लुठति ॥
१ डी हत्येत . २ ए सी डी पुत्रह. ३ एफ था पु. ४ सी डी एफ दुष्ट कृ. ५ एफ री च शा. ६ ए न्तेत्यार्थः ७ सी डी भ्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org