________________
[ है०४.२.११२.]
सर्गः ।
७०३
स्थस्य क्षेमराजस्य सेवार्थं कर्णो देवप्रसादाय क्षेमराजपुत्राय दधिस्थल ग्रामं ददौ । यतः किंभूतायाप्रमाद्यते क्षेमराज सेवादौ सोयमाय तथा शाम्यत उपशान्ताय तथा दाम्यते जितेन्द्रियाय गुरुशुश्रूषाक्लेशसहाय वा ।।
नोक्षाम्याम्यदश्राम्यत्सैन्यः कर्णोभिधामपि ।
द्विषतां फेननिष्ठीवनानिष्ठेने दिशन् ॥ ७८ ॥
७८. कर्णो द्विषतामभिधामपि नाक्षाम्यद्विपः समूलमुन्मूलितवानित्यर्थः । कीदृक्सन् । भ्राम्यत्सर्वासु दिक्षु प्रसरदश्राम्यदखिद्यमानं सैन्यं यस्य सोत एव द्विषतां फेननिष्ठीवनासृनिष्ठेने रणेत्यन्तं खेद्नान्मुखेन फेनोद्वमनरक्तोद्वमने दिशन्ददत् ॥
नवमः
असीवनं कीर्तिपटं दिवसेवनं नयामि ते ।
नयावश्च नयामश्चेत्यूचुस्तं के न भुभूजः ॥ ७९ ॥
७९ तं कर्ण के भूभुजो नोचुः । कथमित्याह । असीवनं सेवनरहितस्फुटितमेकखण्डं वेत्यर्थः । ते कीर्तिपटं दिक्सेवनं दिग्भिः सह बन्धनं नयामि त्वद्यशः सर्वत्राहं विस्तारयामीत्यैर्थः । आवां नयावो वयं नामश्चेति ||
शाम्यते । दाम्यते । अताम्यतः । अश्राम्यत् । भ्राम्यत् । अक्षाम्यत् । अप्रमाद्यते । अत्र “शम्" [ १११ ] इत्यादिना दीर्घः ॥
029
निष्ठीवन निष्ठेवने । असीवनम् सेवनम् । इत्यत्र “ष्ठिव्" [ ११२] इत्यादिना वा दीर्घः ॥
१ई नायाम्य..
१ सी नाकाम्य २ एबी सी डी 'मस्फटि° ३ ए °त्यर्थकी स्तेकी ४ ए पटां दिक्स. ५ ए बी त्यर्थ । आ. ६ बी 'ते । आता ७ ए निष्टीव'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org