________________
[ है०.४.२.१०४.] नवमः सर्गः ।
७०१ येनाधावन्दिवे पूर्वाः शृण्वन्भीमोपि वर्त्म तत् ।
राज्यायोचे क्षेमराजं तदाज्ञा नाधिनोच तम् ॥ ७३ ॥ ७३. येन वर्मना कृत्वा पूर्वाः पूर्वजा मूलराजादयो दिवे स्वर्गायाधावन्वेगेन जग्मुस्तद्वर्त्म तपश्चरणरूपं मार्ग शृण्वन्भीमोपि न केवलं पूर्वा इत्यप्यर्थः । क्षेमरौंजं राज्यायोचे राज्यं गृहाणेत्यूचे । तदाज्ञा राज्याङ्गीकारविषयो भीमादेशस्तं क्षेमराजं नाधिनोत्पितृवियोगकारित्वान्नाप्रीणात् । पितृमार्गमनुसरिष्यन् राज्यं नाङ्गीचकारेत्यर्थः।।
न्याये तिष्ठन्सदाप्याज्ञामकृण्वन्नामनन्कलाः । कर्णोथ मूर्ध्नि जिघ्रयां ताभ्यां राज्येभ्यपिच्यत ॥७४ ॥ ७४. अथ मूर्ध्नि जिघ्रझ्या प्रेमातिशयाँचुम्बद्भ्यामित्यर्थः। ताभ्यां भीमक्षेमाभ्यां करें राज्येभ्यषिच्यत । यतः कीदृग् । न्याय तिष्ठंस्तथा सदाप्याज्ञां भीमादेशमकृण्वन्नहिंसंस्तथा कला आमनन्नभ्यस्यन् ।।
असीद शीयमानांहाः पश्यन्ब्रह्मामृतं पिबन् । तत्त्वे यच्छन्मनो भीमदेवो द्यामृच्छति स च ।। ७५ ॥ ७५. भीमदेवो द्यां स्वर्गमृच्छति स्म ययौ । कीहक्सन् । तत्त्वे परमार्थे संसारानित्यत्वादौ मनो यच्छन्ददत् । तत्त्वं परिभावयन्नित्यर्थः । अत एव शीयमानांहा विशीर्यमाणाज्ञानादिमलोत एव च ब्रह्म परमज्ञानस्वरूपमात्मानं पश्यन्साक्षात्कुर्वन्नत एव चासीदन्नखिद्यमानः केवलसुखे निमन्जन्नित्यर्थः । अत एव चामृतमिव पिबन् । योपि देवः स्यात्सोप्युक्तविशेषणोपेतो द्यामृच्छतीत्युक्तिः ॥
१ डी धिनाच. २ सी डी ज्येभिषि'. ३ ए ञ् श्रीयमामाहाः, १ ए स्तप०. ई स्तत्तप. २ बी सी रूपमा. ३ ई वलं इ. ४ राज्यं रा. ५ डी प्रीणपितृ. ६ ए तिसयाथुम्ब. ७ ई शयचुम्ब'. ८ बी याच्चम्बुया. ९ सी डी ज्येभिषि. १० ए बी सी डी भ्यसन्. ११ ए पेता यां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org