SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ६९८ व्याश्रयमहाकाव्ये [भीमराजः गादिविधौ तर्पयामास । तथा दत्ते स्म द्विजादिभ्यो ददौ धत्ते स्म भाण्डागारेधारयच्च । यथा रोदसी ने दरिद्रितः स्म न दुस्थ्यभूतां न बिभितः स्म न भीते च । औचित्येन तेन यागादौ श्रियस्तर्पणे देवानां तृप्तत्वाद् द्यौरदरिद्राभूद्याचकानां च श्रियो दाने भूरदरिद्राभूत् । श्रियः संग्रहे चायतौ यागभवनाव्युच्छित्तिसंभावनया द्यौर्न भीता । भूश्चातौ दानसंभावनयानुचितदण्डपातपरचक्रोपद्रवाद्यसंभावनया च न भीतेति भावः ॥ बिभीतः सेव वार्यनी यजहीतः स्म विप्लवम् । जहितः स्म ने शान्तत्वं तसिञ् शासति मेदिनीम् ॥६८॥ ६८. तस्मिन्भीमे मेदिनी शासति रक्षति सति यद्यस्माद्धेतो - र्यग्नी विप्लवमतिवृष्टिपुरदाहाद्युपद्रवं जहीतः स्मात्यजताम् । तथा शान्तत्वं न जहितः स्म निरुपद्रवौ सदास्थातामित्यर्थः । तस्माज्ज्ञायते बिभीतः स्मेव भीमाद्भीताविव भीतो युक्तप्रकार एव स्यात् ॥ मिमते । अदरिद्वत् ॥ ना । प्रीणत् । अत्र "नश्चातः" [ ९६ ] इत्यातो लुक्॥ मिमीताम् । प्रीणीते । अत्र “एषामी' [ ९७ ] इत्यादिनात ईत् ॥ अद इति किम् । दत्ते । धत्ते ॥ दरिद्वितः । अत्रै “इदरिद्रः" [ ९८ ] इति-इः ॥ १ बी न सान्त. १ बी सी डी स्म च स्वभा. २ ए न रि'. ३ डी रिद्रतः. ४ ई विभतः. ५ ए णा दे'. सी डी र्पणाद्देवा. ६ डी चायंयतो या. ७ ए यतो दा. ८ ए तो वार्य. ९ बी था सान्त. १० ए थः । स्तस्मा. ११ ई तथा ज्ञाय. १२ ए विवाभी. १३ ए °मतो । अ. १४ ए 'त्र ईदारि. बी व ईदरि. १५ ए बी सी ई °ति-इत् ॥. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy