SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ ( है० ४.२.९५.] नवमः सर्गः। शासद्विभ्रद्धवं भीमो विशन्त्रैणान्युदैवत । दृशं ददन्ति जक्षन्ति वाचं ददति जक्षति ॥६५॥ ६५. भुवं शासद्रक्षन्बिभ्रत्पोषयन्भीमो विशन्पुरे प्रविशन्सन स्त्रैणान्युदैक्षत । कीशि । दृशं चक्षुर्ददन्ति भीमदर्शनाय भीमाभिमुखं क्षिपन्ति सन्ति जक्षन्ति रूपातिशयोत्थहर्षाद्धसन्ति । तथा वाचं ददति भीमरूपातिशयवर्णनायान्योन्यं वचनं वितरन्ति सन्ति जक्षति हर्षान्मिथो हसन्ति ॥ बिभ्रत् । शासत् । इत्यत्र “अन्तो नो लुक्” [ ९४ ] इति नस्य लुक् ॥ ददति ददन्ति । जक्षति जक्षन्ति । अत्र "शौ वा" [ ९५ ] इति नस्य वा लुक॥ तस्यादरिद्रल्लावण्यं प्रीणत्प्रविशतस्तदा। मिमते स्म न पौर्योपि मिमीतामितरः कथम् ॥ ६६ ॥ ६६. तस्य भीमस्य तदा प्रविशतो लावण्यं सौन्दर्य पौर्यापि वैदग्ध्येन प्रसिद्धा नागरिकी अपि न मिमते स्म । एतावदिदमिति न परिच्छिन्दन्ति स्म। यतोदरिद्रत्प्रचुर तथा प्रीगत्सर्वलोकान्हर्षयत्तस्मादितरो ग्राम्यस्त्रीलोकः कथं मिमीताम् ।। स प्रीणीते स दत्ते स धत्ते स्म च तथा श्रियम् । दरिद्रितः स न यथा विभितः स्म न रोदसी॥६७॥ ६७. स भीमस्तथौचित्यरूपेण तेन प्रकारेण श्रियं प्रीणीते स्म या १ ए तस्माद. २ सी डी रिद्रत:. ३ ए द्रित स्म. १ सी डी शन्प्र. २ ए °णान्यदै'. ३ ए कीदृशि. ४ ए भिम्वखं क्षिपति स. ५ सी डी खं विक्षि. ६ बी न्ति यक्ष. ७ ई विरमन्ति. ८ ए सी क्षन्ति ह. ९ ए °त्र सौ वा. १० ए काश्चपि. ११ एथात्प्रीण. १२ ए थं तिमी. ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy