SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ [है. ४.२.६८.] नवमः सर्गः। ६८७ तिरिन्द्रतक्षकरूपं हव्यं येन तस्मात् ॥ किल जनमेजयस्तक्षकाहिदंशेन पितरि मृते सर्पेषु क्रुद्धः सर्पहोतव्यं यागं प्रकृतवांस्तत्रं च यागे याचकॅस्वेच्छायां पूरितायामेवाहुतिरग्नौ क्षिप्यत इति विधिः । इतश्चविग्भिः केषुचित्सपेंधू हुतेषु तक्षको भीत इन्द्रं शरणीचक्रे तज्ज्ञात्वातिकुपितेन जनमेजयेन सेन्द्रस्यापि तक्षकस्याहवनायादिष्टा यायजूका यावन्मत्रैराकृष्य तक्षकेन्द्रावाहुतित्रुचि न्यवेशयंस्तावदास्तीकर्षिर्यज्ञवाटकाद्वहिरर्थी सन्वेदं जगौ तं श्रुत्वा जनमेजयः प्राह । यदसौ मुनिर्याचते तहत्त्वाहुतिरनौ क्षिप्यतां ततस्त्वं किं याचस इत्युक्तोसौ मुनिराह । या काचिधुनाहुतिरग्नौ होतुमारब्धास्ति सैव मह्यं दीयतामिति निर्बन्धात्तेनोक्ते यदा यज्ञाग्नितः साहुतिरुत्तारिता तदा तदाजातमिवात्मानं मन्यमानौ तौ झगिति पलायिताविति पुराणविदः ॥ क्षीणद्यूतास्तथेहान्येप्यसिनग्रासतेजसः। अद्याप्यक्षीणवन्तो नु यशोभिः क्षितवर्जितैः ॥४८॥ ४८. तथेह सोमवंशेन्येपि नृपाः क्षितवर्जितैरक्षयैर्यशोभिः कृत्वाद्यापि संप्रत्यप्यक्षीणवन्तो न्वक्षया इव जीवन्तीवेत्यर्थः। यतः कीदृशाः । क्षीणद्यूता अपगतदुरोदैरव्यसनास्तथा सीयते स्म सिनो बद्धो ग्रासोन्यनृपतेजोभिप्रेसनं यस्य तत्सिनग्रास न तथासिनग्रासमग्रस्त तेजः प्रतापो येषां ते ॥ १ ए °न्तोत्थय. १ ए हिदशे. २ बी मृत स'. ३ सी डी त्र या . ४ ए कस्मेच्छा. ५ ए श्चत्रिभिः के. ६ सीडी पु हते° ७ एक्षका भी . ८ डी स्त्वं किया ९ ई नौ झ. १० सी डीवन्त एवे'. ११ ए रस्यस. १२ ए तथाः सि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy