________________
६८६ घ्याश्रयमहाकाव्ये
[ भीमराजः] धर्मो नु । अत्यन्तं प्रतापी विक्रान्तश्चेत्यर्थः ।। अयं च नघुषवृत्तान्तः षष्ठे सर्गे पञ्चत्रिंशे वृत्ते प्रागेवोक्त एव ।
रणाप्रमत्तान्दुत्तवतः सूनानयानिह ।
अदूनो दूनवान्दैत्यान्भरतः सूनवान्यशः ॥ ४५ ॥ ४५. इह सोमवंशे भरतो नाम नृपोदूनोनुपतप्तः सन्दैत्यान्दूनवाजघानेत्यर्थः । किंभूतान् । रणाप्रमत्तान्संग्रामे सोद्यमान्दुमत्तवतो दुष्टमदानत एव सूनानयाञ्जनितान्यायानत एव यशः सूनवानुत्पादितवान् ॥
अनिद्राणवतः शत्रूननिद्राणोत्र वृक्णवान् । वृक्णपापो ध्यातधर्मः ख्यातः पूतो युधिष्ठिरः ॥ ४६॥ ४६. स्पष्टः॥
पूनावाचूनयज्ञोंनेः समनाविन्द्रतक्षकौ । पात्रोदक्ताहुतेर्यस्मादभूत्पारीक्षितोत्र सः ॥४७॥ ४७. अत्र सोमवंशे परीक्षितः परीक्षितेर्वापत्यं पारीक्षितोर्जुनप्रपौत्रो जनमेजयो नाम राजाभूत् । यस्मात्पारीक्षितात्सकाशान्मृत्युभयेनेन्द्रतक्षको समैनौ मिलितौ सन्तौ पूनौ नष्टौ । यत आयूनः सर्पकुलकोटिभक्षकत्वेनौदरिको यज्ञाग्निर्यागवह्निर्यस्य तस्मात्तथा पात्रादाहुतिभाजनात्मुच उदक्तोद्धृतास्तीकर्षिप्रार्थनयोत्तारितेत्यर्थः । आहु
१ डी तान्दूम'. २ ए मतव ई मतव'. ३ ए क्णमापो ध्यायत'. ४ ए सी पूतावा. ५ ए ज्ञाग्रेः स.
. १ सी धमनान्दु. २ बी सी डी यो रा. ३ ए मनो मि. सी डी मक्तौ मि. ४ सी पादहु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org