________________
व्याश्रयमहाकाव्ये भीमराजः] तायते तन्यते । अत्र "तनः क्ये" [ ६३ ] इत्यन्तस्याद्वा ॥
सतेः । सातेः । सन्तेः । इत्यत्र "तौ सनस्तिकि" [६४ ] इति लुगातौ वा ॥ खाना । अग्रेगाना । ध्वाव । इत्यत्र “वन्याङ् पञ्चमस्य" [ ६५ ] इत्यात् ॥
तन्नृपापंचितिनं श्रीभीमो हनवानिति ।
त्वामाह किमरिर्मित्रं वासि मे ह्रतिकृविधा ॥ ४० ॥ ४०. तद्यस्मात्त्वं पूर्वोक्तनीत्या राजाधिराजस्तस्माद्धेतोर्नृपाणामपचितिः पूजा तया हून्नं प्रमुदितं त्वां श्रीभीमो हन्नवान्प्रमुदितः सन्नियेवमाह । यथासि त्वं मे किमरिमित्रं वा द्विधा शत्रुत्वमित्रत्वरूपाभ्यां द्वाभ्यामपि प्रकाराभ्यां त्वं मे हत्तिकृदाह्लादक इति ॥
अपचिति । इत्यत्र “अपाद्' [ ६६ ] इत्यादिना चिः॥ लग्नम् । हन्नवान् । हत्ति । इत्यत्र "हाद'' [६७ ] इत्यादिना ह्रद् ॥
वितीर्णवानथ नयानुत्तीर्ण लूनसंशयम् । कर्णः कर्णावतीणिर्नु यशोलीन इदं वचः ॥ ४१ ॥ ४१. अथैवं दूतोक्त्यनन्तरं कर्णः कर्णाख्यश्चेदीशो नयानुत्तीर्ण न्यायादनपेतं लूनसंशयं छिन्नसंदेहमिदं वक्ष्यमाणं वचो वितीर्णवान्ददौ । कीदृक् । यशोलीनो दानविक्रमोत्थकीर्त्याश्लिष्टोत एव कर्णावतीणिर्नु राधेयावतार इव ॥
अलूनिः सोमवंशः श्रीकृतलीनिर्जयत्यसौ ।
अधोलीनवतां तापं लूनवान्पूर्तिपावनः ॥४२॥ ४२. असौ सोमवंशश्चन्द्रान्वयो जयति । कीदृक् । असती लूनि१ सी तत्वं नृ.२ डीपचति. ३ ई °नुयशो'. ४ डी कृताली'.५ ए वात्पूर्ति . १ ए दा ॥ सेतेः. २ सी भ्यां त्वं. ३ ए ई हुन्नः । ह्र. ४ ५ °तं नून.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org