________________
[ह० ४.२.६२.] नवमः सर्गः।
निखन्यासन्यमानः प्राक्कोश उत्खाय सायते ।
प्राणान्सन्याः स्थिति साया गौडेनं त्वेति जल्पता ॥३८॥ ३८. गौडेन गौडदेशाधिपेन प्राक्पूर्व निखन्य निधानीकृत्यासन्यमानोदीयमानः कोशो भाण्डागारमुत्खाय निखातादुद्धृत्य सायते तुभ्यं दीयते । किंभूतेन सता । त्वा त्वां जल्पता । कथमित्याह । हे चेदे प्राणोजीवितं सन्या देयाः स्थितिमवस्थानं देशं च साया इति ॥
उत्खातः । सातिः। अजात । इत्यत्र “आः खनि" [६० ] इत्यादिनान्तस्यात् ॥ सिषासति । इत्यत्र “सैनि" [६१ ] इत्यन्तस्यात् ॥
उत्खाय निखन्य । सायते सन्यमानः । जाजायते जञ्जन्यमान । इत्यत्र “ये न वा" [ ६२ ] इति वान्तस्यात् ॥ य इत्यकारान्तनिर्देशादिह न स्यात् । सन्याः । अन्यथा यीति क्रियेत । केचिदत्रापीच्छन्ति । सायाः ॥
तन्यतेर्जुनवंशश्रीयशोब्धिवाव तायते ।
सातेः सन्तेः सतेश्चाग्रेगाना खाना द्विषां त्वया ॥ ३९ ॥ ३९. सहस्रार्जुनवंशोत्पन्नत्वात्त्वयार्जुनवंशश्रीः सहस्रार्जुनान्वयलक्ष्मीस्तन्यते विस्तार्यते । यतो द्विषां खान्नोन्मूलकेन तथा सातेः सन्तेः सतेश्चैवंनामराजविशेषेभ्योगेगाना स्वामित्वादग्रेसरेण । अत एवाब्धिषु घोणते भ्राम्यत्यब्धिवाव यशस्तायते विस्तार्यते ॥
१ ए सी प्राकोश. २ बी न विति. ३ ए ब्धिष्वाव. ४ अत्र “कवर्गकखरवति' [२-३-७६ ] इति णत्वेन भाव्यमिति भाति ।।
१ ए हे वेत प्रा. २ ए णाच्छीवि'. ३ ए सी डी ति । अ. ४ ए समि इ. ५ ए खाया निखन्य । स्पेयतो । मन्य. ६ सी न । सन्यः । अ. ७ ए सी साया ॥. ८ ए हार्जु. ९ सी डी ई हश्रार्जु. १० ए ब्धिश्चावयवश, ११ सीते ॥ ता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org