SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ ६४८ व्याश्रयमहाकाव्ये [भीमराजः] मम मुवो बन्धका एत इति हेतोरिव । गिरिपाषाणैर्हि वहो बद्धस्ततस्तन्जलमुत्पथैः प्रसरगिरीन्प्लावितवदित्येवमाशङ्का ॥ ओमतूर्मभिरजूर्मभिरासेषेषि किं नृभिरनूः कृतभूते । श्रोमवारिणि सुजूः परितूः श्रूर्नकचक्र इति नूनमराटीत् ॥१०३॥ __१०३. नकचक्रो नूनमित्येवंप्रकारेणाराटीत् । तमेवाह । कृता भुवः पृथ्व्या ऊतिरैवनं येन तस्य संबोधनं हे कृतभूते भीम अजूमंभिरज्वरद्भिर्नीरोगैस्तथा । अवन्तीयोमानस्त्वद्रक्षकास्त्वत्सेवका इ. त्यर्थः । त्वरन्ते तूर्माणो वहबन्धार्थं त्वरावन्त ओमानो ये तूर्माणस्तैर्नृभिर्भटैः सहितस्त्वमनूर्ममारक्षकः सन्कि किमित्यासेषेष्यत्यर्थं बध्नास्यान्मदाश्रयं वहमिति । कीदृक्सन् । श्रोमोत्पथगत्या स्तोकीभूतत्वाच्छुष्यद्यद्वारि तत्राधारे श्रूः स्तोकाम्बुत्वेन शुष्यन्नत एव सुजूः सुष्टु पीडावान् । अत एव च परितः समन्तात्त्वरते संभ्रमेणेतस्ततो गच्छति यः स परितः । नकचक्रो हि शुष्यजले संतप्यमानत्वादारटन्कविनैवमुत्प्रेक्षितः ॥ श्रूतिपूर्तिकृतजूर्तिरमूभिर्मोममूर्तिरिव तोर्मचमूपैः। प्रागतूः स वह उज्झति फेनं तूर्ण उग्रविधिपाकनियोगात्॥१०४॥ १०४. मोर्मा मूर्छावती मूर्तिरङ्गं यस्य स इव वहः फेनमुज्झति स्म । मूर्छावान् हि मुखेन फेनमुज्झति । कीडक्सन् । प्राक्पूर्वमविद्यमानास्तुरस्तूर्वन्तः सेतुबन्धेन पीडका यस्य सोन्तरब्धितुल्यत्वेन १ वी रनू कृ. २ ए रितस्तूनक्र. १ सी डी स्तज्ज. २ सी रत'. ३ ए °न्तीतमा . ४ ए ५ एमेणत. तास्त्वर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy