________________
[ है० ४.१.१०१.]
अष्टमः सर्गः ।
६४७
लङ्घय यत ऋद्धः स्फीतो यो भुजविक्रमस्तेन कान्तै रम्यैः । अतिशूरत्वेन सैन्यात्पूर्वमेव योद्धुं कैश्चिद्वह उत्लवितुमिष्ट इत्यर्थः ॥ किं प्रशानसि भुजौ तव शंशान्तो वदत्यवनिवृत्रहणीत्थम् । सेतुकष्टमपि शामति सामप्रश्नपृष्टजनतासु किल स्म ॥ १०१ ॥
१०१. सामप्रश्नपृष्टजनतासु साम्ना मधुरालापेन यः प्रश्नः पृच्छा तेन पृष्टा या जनता लोकौघास्तासु विषये किलेति सत्ये सेतुकष्टमपि सेतोर्बन्धजनितं दुःखमपि शामति स्म शमित्र सुखमिवाचरति स्म । क सत्यवनिवृत्रहणि पृथ्वीन्द्रे भीमे । किंभूते । वदति । कथमित्याह । अहो भट किं प्रशानसि सेतुबन्धादुपशाम्यन्भवसि । तथा तव भुजौ किं शंशान्तो भृशमुपशाम्यत इत्थम् ॥
3
स्योमभिः स वह आहितसेतुस्यूत उत्पथविडम्बुभरट्यूः । हुं मुवो मम गिरीनिति सेष्योति स्म मोमकृंतमूतिनिमित्तात्॥१०२॥
१०२. स वहो मोमभिर्मवद्भिर्बन्धकैर्नरैः कृता या मूतिर्बन्धः सा चासौ निमित्तं च तस्माद्गिरीन्समीपस्थानद्रीन्सेध्योति स्मात्यर्थं बबन्ध सर्वतोप्लावयदित्यर्थः । कीदृक्सन् । सीव्यन्ति स्योमानो बन्धकनरास्तैः स्योमभिराहितः कृतो यः सेतुस्तेन स्यूतो बद्धोत एवोत्पथानुन्मार्गान्विच्छति गच्छति योम्बुभरस्तं ष्ठीवति निरस्यति यः सः । उत्प्रेक्षते । न गिरीन्मोमकृतमूतिनिमित्तत्सेध्योति स्म किं तर्हि हुं मुवो ममेति । इतिर्भिन्नक्रमे । इव उत्प्रेक्षाद्योतको ज्ञेयः । हुमिति कोपे ।
२ सी कृतिमू
२ एनः प्रच्छा. ३ डी किं शशा° ४ बी न्धः द्रीन सेष्यो . ६ ए बी न स्फूतो. ७ बी ई •प्रेक्ष्यते.
१ बी सी 'नति.
१ ई ऋद्ध स्फी".
स चा ५ बी
८ बी 'तात्सैयो ९ बी सी 'प्रेक्ष्याद्यो'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org