________________
६०८
घ्याश्रयमहाकाव्ये
[ भीमराजः]
०२१४
न्विबोध्य संबोध्यान्वशात्पुनरेवं न कार्यमित्यशिक्षयत् । कथं संबोध्येत्याह । अहो पुरुष हि स्फुटं त्वं रेधिथ घातं कृतवान्न तु नै पुनरयं नरो रराध । तथाहो यस्मात्त्वं विरेणिय विरुद्धमवोचस्तत्तस्मादमी नरा विरेणुर्यदा त्वं नो बभणिथ नावोचस्तदा क आबभणुः । न केपीषदप्यूचुरित्यर्थः । तस्मात्तवैव दोषोयमित्युक्तं स्यादिति ॥
ज्ञीप्सति । ईप्सति । इत्यत्र "ज्ञप्याप०" [१६] इत्यादिना ज्ञीपीपादेशौ न च द्विः ॥ ईर्मुः । अत्र "ऋध ई” [ १७ ] इति-ई न च द्विः ॥ धिप्सति । अभिधीप्सति । इत्यत्र “दम्भ०" [१८] इत्यादिना धिधीपौ न च द्विः॥
मोक्षति विमुमुक्षति । इत्यत्र “अव्याप्यस्य मुचेोग्वा" [१९] इति वा मोक् न च द्विः ॥ अव्याप्यस्येति किम् । शस्त्रं नामुमुक्षत् ।
डुमिंगृ । अनिमित्सति ॥ मीति मीडमींग्शोर्ग्रहणम् । नामित्सदपशस्त्रम् ॥ मेति माक्माङ्कमेडा ग्रहणम्। अमित्सत्क्ष्माम् ॥ दासंज्ञ । दित्सया । दित्सति । धित्सति लक्ष्मीम् । न धित्सति । इत्यत्र “मिमी०" [ २० ] इत्यादिना स्वरस्येन्ने च द्विः ॥ मांङ्कमडोरुदाहरणे स्वयं ज्ञेये । मातेनेच्छन्त्येके । अमिमासत् ॥
समरिप्सत । अलिप्सत । अशिक्षत् । अपित्सत् । पित्सते । अत्र “रभलभ०" [२१] इत्यादिना स्वरस्येन्न च द्विः ॥
१ए बोधेत्या. २ ए तु पु. ३ सी नर'. ४ डी ईत् न. ५ बी धिपधीपौ. ६ सी विमुक्ष. ७ बी अवाप्य'. ८ प नानामु. ९डी डुमेन्ट् । अ. १० ए बी मिन्ट् । अ०. ११ बी मिन्छति. १२ बी ति मी मीशो' सी ति मीत मी. १३ डी मीङ्ग मी. १४ एक मीग्शो'. १५ सी मांक मां° १६ डी मांङ्कमे . बी मांङ्कमेंडां. १७ सी न द्विः. १८ बी द्विः ॥ माङ्कमँडो'. १९ डी "सत् । अ. २० डी अपि. २१ बी सन् । पि.
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org