SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ [ है० ४.१.१६.] अष्टमः सर्गः। ६०७ धित्सति स न पयोप्यवितीर्ण तजनः कथमलिप्सत वित्तम् ।। नात्र कोपि समरिप्सत कोपात्सोन्तकेप्यविनये यदशिक्षत् ॥३७॥ ३७. यद्यस्माद्धेतोः स भीमोविनयेपन्याये सत्यन्तकेपि यमेपि विषयेशिक्षच्छक्तुमैच्छत् । अनुशासितुं समर्थोभूदित्यर्थः । तत्तस्माखेतोरत्र जगति जनोवितीर्णमदत्तं पयोपि जलमपि न धित्सति स्म न पातुमियेष । कथं पुनरवितीर्णं वित्तं द्रव्यमलिप्सत प्राप्नुमैच्छन्न कथमपीत्यर्थः । तथा न कोपि कोपात्समरिप्सत संरम्भं चक्रे । चौर्य कलहं च न कोपि चक्र इति भावार्थः ।। पित्सते स्म शरणार्थमपित्सन्नारिरात्सुरथ वा य इमं हि । तं स्म रित्सति न कोपि न कौचिद्रेधतुर्न खलु केपि च रेधुः॥३०॥ ३८. यो नरोपित्सन्पतितुमनिच्छन्नभ्रंशितुकामः सञ् शरणार्थं स्वरक्षायायथ वा य आरिरात्सुः सेवितुकामः सन् हि स्फुटमिमं भीमं पित्सते स्म जिगमिषति स्मं तं नरं कोपि न रित्सति स्म न हिंसितुमैच्छन्न कौ चित्कावपि तं रेधतुर्जन्नतुर्न केपि च तं खलु निश्चयेन रेधुः॥ त्वं हि रेधिथ रराध तु नायं त्वं विरेणिथ विरेणुरमी तत् । नो यदा बभणिथावभणुः के सोन्वशादिति विबोध्य सवादान् ॥३९॥ ३९. स भीमः सहवादेन ये तान्सवादान्मिथो विवदमानान्नरा. १ ए तद्यनः. २ सी त्र केपि. ३ बी पिच्छन्ना ४ बी रेणथ. १ ई सितं स. २ सी डी च्छत् । क. ३ई के । क्रौर्य. ४ बी हं न च को . ५ डी र्थः ॥ वित्स ६ए पते स्म. ७ ए स्म नं तरं. ८ सी डीर न को. ९ डी पि न रे'. १० बी तुजघतु. ११ ई च ख°.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy