________________
[ है० ३.४.६४ ] सप्तमः सर्गः ।
५८१ मृत्युमहाभयेन प्रियादिचिन्तां मुक्त्वा स्वस्वप्राणानादाय सर्वोपि नृपादिजनो नष्ट इत्यर्थः ॥
योम्लोचीत्सोम्लुचद्भीरो ग्रोचीत्तस्य जीवितम् । तेजोग्रुचद्यशोग्लोचीचौलुक्यो नाम चाग्लुचत् ॥ १४१॥ १४१. यो भीरुभयेनाम्लोचीद्रणाद्गतः स भीरुरम्लुचद्गत एव यतस्तस्य भीरोश्चौलुक्यो जीवितं नाग्रोचीन्नाहरकि तु चौलुक्यो भीरोस्तेजः प्रतापमग्रुचद्यशश्चाग्लोचीदहरत् । नाम च लोकेग्राह्यनामत्वात्तस्याभिधामप्यग्लुचत् । यद्वा । युचू ग्लुचू गतावपीत्येके। ततश्चौ. लुक्यस्तेजोग्रुचत्प्राप्तो यशश्च सर्वदिग्गामिनी पराक्रमकृतां वा प्रसिद्धिं चाग्लोचीन्नाम चैकदिग्गामिनी पुण्यदानकृतां वा प्रसिद्धिं चाग्लुचत्॥
एवं द्विषोजरदसौ सुदमप्यजारीदग्लुञ्चदच्युततुलामिति चेष्टितेन । खामग्लुचच्च नगरीमथ पात्रताम
ग्लुञ्चीत्ससंभ्रमवधूजनलोचनानाम् ॥ १४२ ॥ १४२. असौ दुर्लभ एवमुक्तरीत्या द्विषोजरत् । अन्तर्भूतणिगर्थो जृष्। निःसत्वतापादनेन जीर्णीचक्रे । तथा मुदमपि द्विषामजारीदपानैषीदित्यर्थः । यद्वा । महापुरुषत्वान्मुदमपि द्विड्योत्थं हर्षमप्यजारीत्वस्मिन्नेवाजरयदुत्सेकं न चक्र इत्यर्थः । अतश्चेति चेष्टितेन द्विषजरणोत्सेकाकरणरूपेणाचरितेनाच्युततुलां विष्णुसाम्यमग्लुञ्चत्प्राप।
१ ए नालोची. २ सी डी कि चौ. ३ ए मग्लुच. ४ सी डी यथा. ५ ए वा ग्लुचू ग. ६ सी ग्रुच ग्रुच गये. डी ग्रुच ग्लुच ग° ई ग्रुचू ग. ७. बी
त्र जषः ।. ८ ए जीणे च. ९ ए सीक्रे । यथा. १० बी नैषादि. ११ डी द्विषोत्थं. १२ ई योत्थह. १३ ए वाजार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org