SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ [ है. ३.४.५९.] सप्तमः सर्गः । ५७९ स स्वेदेनालिपद्गात्रमसिचत्क्ष्मां च माथुरः। य आह्वास्त तुरुष्केशान्पर्वतीयान्य आह्वत ॥१३७ ॥ १३७. स माथुरः स्वेदेन भयोत्थप्रस्वेदेन गात्रमलिपत् । क्ष्मां चासिचदायत् । यो महाशूरत्वेन तुरुष्केशानाह्वास्त युद्धेच्छया सस्पर्धमाकारयत् । तथा यः पर्वतीयान्पर्वतदुर्गभवान्नृपानाह्वत ॥ अलिप्तासिचतान्ध्रः क्ष्मामसृजा मूर्छितस्तदा । असिक्तालिपतैनं वाश्चन्दनन्दिनां गणः ॥ १३८ ॥ १३८. तदा युद्धकाले मूर्छितः संक्षोभातिरेकेण वैचित्त्यं गतः सन्नन्ध्रोन्ध्रदेशाधिपोसृजा मुखानिर्गतेन रक्तेन कृत्वा क्ष्मामसिचत धाराप्रवाहेणार्टीचक्रे । तथा क्ष्मामलिप्त धाराप्रवाहस्याविच्छेदबाहुल्याभ्यामुपचितीचके । अत एव बन्दिना भट्टानां गण एनमन्धं वाश्वन्दनैरसिक्तालिपत च मूर्छापनोदाय वारिभिः सिक्तवांश्चन्दनैलितवांश्चेत्यर्थः ।। अश्वोश्वमुपाश्लिक्षत् । इत्यत्र "श्लिषः" [५६] इति सक् ॥ रथो रथमुपाश्लिषेत् । इत्यत्र "नासत्त्वाश्लेषे” [५७] इति सन्न ॥ अचीकमत । अशिश्रियत् । अदुद्रुवत् । असुस्रुवत् । अचकमत । इत्यत्र "णिनि' [५८] इत्यादिना ङः ॥ अदधत् अधात् । अशिश्वियत् अश्वत् । इत्यत्र "टेश्वेर्वा" [५९] इति वा ङः ॥ १ सी डी तुरष्टेन्प'. १ डी तुरश्धेना. २ डी वैवश्यं ग. ३ ए “ीच । त°. ४ ए°ष । इ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy