SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ५७८ व्याश्रयमहाकाव्ये [दुर्लभराजः] अल्झोधात्पयो नाश्वबैर्यमाशा अशिश्चियत् । गन्तुं ये चाशिपन् व्यत्यशिषताख्यच साधु तान् ॥१३४॥ १३४. अल् भयातिरेकोत्थमनःपीडयाङ्गोङ्गदेशाधिपो धैर्य चित्तावष्टम्भं नाश्वन्नागमदत एवाशा दिशोशिश्वियन्नष्ट इत्यर्थः । किं बहुना पयो जलमपि नाधान्न पपौ । तथा ये भटा गन्तुं नंदुमशिषन्नशिक्षयन्नात्तं तानङ्गो गन्तुं व्यत्यशिपत विनिमयेनाशिक्षयत्तान्साधु यथा स्यादेवमाख्यच्चें साधु साधूक्तं भवद्भिरिति तान्प्रशंसितवांश्चेत्यर्थः ।। अपास्थतास्त्रं मालव्यो न्यवोचच्च पलायितुम् । शासत्सु व्यत्यशासिष्ट नाभ्यसादपासरत् ॥१३५ ॥ १३५. मालव्योस्त्रमपास्थत तत्याज पलायितुं न्यवोचच्च पलाय्यत इत्यवदच्चेत्यर्थः । तथा पलायितुं शासत्सूपदिशहूं व्यत्यशासिष्ट विनिमयेनोपादिक्षदत एव नाभ्यसार्षीन्नाभिमुखमगमत्किं त्वपासरदनेशत् ॥ त्रस्तैः समाष्टं नो पुत्रैः कलत्रैर्न समारत । हूणो निरारदन्वार्षीन्नष्टानात्तथापरान् ॥ १३६ ॥ १३६. हूणो हूणदेशाधिपस्वस्तै तैः पुत्रैः सह न समाष्टं न समगस्त । तथा कलत्रैश्च न समारत किं तु निरारद्रणान्निर्गतः । भयभीतान्पुत्रान्कलत्राणि च मुक्त्वा स्वप्राणानादाय नष्ट इत्यर्थः । अत एव नष्टानन्वार्षीदन्वगमत् । तथापरानन्याननष्टानाह्वदाकारयत् ।। १ डी शिश्रिय'. २ ए तात्रं मा. ३ ए शाशत्सु. १ सी डी शिश्रिय. २ ए तुं नष्ट'. ३ बी विनम'. ४ डी च स सा. ५ ए °त त्या. ६ ए °यितं शा. ७ ए शाशत्सू. ८ ए त्सु शा. ९ सीडी व्यतिशा. १० सी डी त्रस्तः पु. ११ ए बी सी ई न्यानष्टा . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy