________________
४९६
व्याश्रयमहाकाव्ये
[मूलराजः ]
त एव क्षीरमेवोदकं यत्र स क्षीरोदः क्षीराब्धिस्तस्य विस्फारी प्रसृमरो य उदवीवध उदकमार्गो महत्त्वेनानाक्रम्यत्वात्तेनाभा येषां तैस्त्वदीयैर्भटैमङ्क हताः प्रहृताः ॥ उदकुम्भ उदककुम्भ । इत्यत्र “वैक' [१०५] इत्यादिना वोदः ॥ उदमन्थ उदकमन्थ । उदौदनम् उदकौदन। उदसक्तु उदकसक्तु । उदबिन्दु उदैकबिन्दु । उदवज्र उदकवज्र । उदभाराः उदकभार । उदहार्या उदकहार । उदवीवध उदकवीवध । उदगाहात् उदकगाहम् । अत्रे “मन्थौदन" [१०६] इत्यादिना वोदः ॥ उदपान ॥ उत्तरपदस्य । क्षीरोद । इत्यत्र "नाम्नि" [१०७] इत्यादिनोदः॥
देव दत्त देवदत्त । इत्यत्र "ते लुग्वा" [१०८] इति पूर्वोत्तरपदयोलुंग्वा ॥ द्वीपान्तरीपप्रभवः परापानूपेश्वरा लाटसखाय एयुः। मूनोस्तवाग्रेङ्गुलिमप्रतीपंमन्यावलंमन्यतयाच्छिदंस्ते ॥ ८४ ॥
८४. द्विधा गता आपो यत्र तवीपम् । अन्तर्गता आपो यत्र तदन्तरीपम् । यद्यप्यनयोर्नाममालाँस्वेकार्थता तथापि जलमध्यस्थं बेटकमिति प्रसिद्धं द्वीपं जलसमीपस्थं चान्तरीपमिति भेदो ज्ञेयः । तयोः प्रभवः । परावृत्ता आपोस्मिन्पेरापं पुरभेदः । अनुगता आपोस्मिन्ननूपो जलबहुलो देशस्तयोरीश्वराश्च लाटसखायो लाटेशसाहाय्यकारिणः सन्तो यत्तदोनित्याभिसंबन्धाद्य एयुरागतास्ते तव सूनोरग्रेङ्गुलिं कनिष्ठामच्छिदन वेलायत्तीबभूवुरित्यर्थः । कया हेतुना ।
१ डी परीपा०. २ ए सी लाखस'.
१ ए सी नाभ ये°. २ ए सी कबि. ३ सी दव'. ४ ए सी डी 'भारः। उ° बी भारम् । उ°. ५ ए सी त्र मेथौद. ६ ए सी डी तxxद. ७ ए सी लाप्वेका. ८ डी द्वीपस्थं. ९ डी परीपं. १० ए सी कारणः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org