________________
[ है०३.२.१०५]
पष्ठः सर्गः ।
डनं तस्माजातौ याविभोदवज्रावैरावणविद्युतौ तयोरिव नादोरिजयसूचकः सिंहनादो यस्य स तथा सन्कुमारभटेन केनाप्युदकवज्रभीमासिना विद्युद्रौद्रखङ्गेन कृत्वोदौदनं नूदकमिश्रौदनमिवै निपिष्टोपि छिन्नमूर्धापि ॥ रणोदगाहाद्रुधिरोदभाराः केपि क्षणेनोदकगाहमीयुः ।। प्रियोदसक्तूदकभारजन्तुव्यग्रा व्रणाग्रोदकसक्तुशुभ्राः ॥ ८२ ॥
८२. केपि भटाः क्षणेनोदकैगाहं नद्यादिजलमध्यविलोड मीयू रुधिरप्रक्षालनार्थ प्रापुः । किंभूताः सन्तः । रणमेव दुष्करत्वादुदगाहो जलविलोडनं तस्मादनेकप्रहारव्याप्ताङ्गत्वाद्धेतोरित्यर्थः । रुधिरमेवातिबाहुल्यादुदभारो जलप्रवाहो येषां तेत एव रुधिरप्रवाहोपशमाय व्रणाग्रेषु प्रहारक्षतमुखेषु य उदकसक्तवो जलमिश्रसक्तुपिण्डिकाः । प्रहारेषु हि पथ्यत्वात्सक्तुपिण्डिका बध्यन्ते । तैः शुभ्राः श्वेता अत एव च प्रिया उदैसक्तर्वं उदकमिश्राः सक्तवो येषां ते य उदकभारजन्तवो जलप्रवाहजन्तवो यादांसि तैर्व्यग्रा नद्यादिजलप्रदेशे व्याप्ताः ॥ क्षीरोदविस्फाटुंदवीवधाभैर्मन्दपानोदकवीवधाभाः । देवेति दत्तेत्यथ देवदत्तेत्यूचुर्मिथः केपि हतास्त्वदीयैः ॥८३।।
८३. केपि भेटा: पीडार्तत्वेन तुच्छत्वेन च शरणार्थित्वान्मिथोन्योन्यमूचुः । किमित्याह । देवेति हे देव मां रक्षेति । मां रक्षेत्याद्यध्याहार्यम् । तथा दत्तेति हे दत्त मां रक्षेति । अथ देवदत्तेति हे देवदत्त मां रक्षेति च । किंभूताः सन्तः। उदकं पीयतेस्मिन्नुदपानं कूपाहावादि निपानं तस्योदवीवधो जलमार्गोल्पत्वेन स्वाक्रम्यत्वात्तेनाभा साम्यं येषां ते तथा
१ सी यच०. २ ए सी व नपि. ३ ए सी कग्राहं. ४ ए सी 'नमयू. ५ ए सी तस्मे द. ६ ए सी पु पिथ्य. ७ डी दक. ८ ए सी 'व द. ९ ए सी डी भटा पी. १० ए सी वीविधे ज.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org