SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४८० घ्याश्रयमहाकाव्ये चामुण्डराजः ] महाविशिष्टं च महाकरं च क्षिप्त्वा महाघासभुगुक्षमत्तः। महावलान्यत्वरयन्महाजातीयावलेपेन महाभुजः सः ॥५८॥ ५८. स लाटो महान्प्रकारोस्य महाजातीयो महान्योवलेपो बलादिकृतोहंकारस्तेन कृत्वा महाबलान्यत्वरयाद्धाय प्रेरितवान् । किं कृत्वा । महाविशिष्टं च महत्या राज्यादेः प्रधानं महाकरं च महत्याराश्यादेर्हस्तं च क्षिप्त्वा तिरस्कृत्य । अनेनापि स्खलनरूपमनिमित्तमस्यो. क्तम् । यतो महत्या अरण्यान्या यो घासस्तं भुते य उक्षा वृषस्तद्वन्मत्तः । एतदपि कुत इत्याह । यतो महाभुजः ॥ श्रुत्वा महद्भूतबलं तु यष्टायष्टयुत्सुकं मामहतीप्रियं तम् । चामुण्डराजोपि चचाल यष्टीयष्टयस्यसिक्रीडनकौतुकेन ॥५९॥ ५९. चामुण्डराजोपि चचाल । किं कृत्वा । मया पृथ्व्या कृत्वा महती प्रिया भार्या यस्य तं विशालभूवधूकं तं तु लाटं पुनः श्रुत्वा । किंभूतम् । यष्टायष्टि यष्टिभिश्च यष्टिभिश्चै मिथः प्रहृत्य कृते युद्ध उत्सुकमत एव युयुत्सयानेकस्थानकेभ्यो मिलितत्वादमहन्महद्भूतं संपन्नं बलं सैन्यं यस्य तम् । युधि प्रगुणीभूतमित्यर्थः । केन हेतुना चचाल। यष्टीयष्टि यष्टिप्रहरणोपाधिके युद्धेस्यस्यसिपहरणोपाधिके युद्धे च वि. षये क्रीडनकौतुकेनातिशूरत्वेनास्य युद्धस्य सुखसाध्यमानित्वादत्यन्ताभिलाषुकत्वाच क्रीडाकुतूहलेन ॥ महाकरम् । महाघास । महाविशिष्टम् । इत्यत्र "स्त्रियाम्" [६९] इति डाः॥ १ डी तीयोव. १ ए सी महोजा. २ ए सी डी भुक्ते य. ३ डी यष्टयुत्सुकं य. ४ ए सी °ष्टिभिश्च. ५ ए सी श्च मथः. ६ ए सी स्थानेके. ७ बी युधे प्र. ८ सी क्रीडान. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy