________________
[है० ३.२.६८.] षष्ठः सर्गः।
४७९ वासितरे। चण्डितमा । औरिसरूपे । कुमारिकल्प । गार्गिब्रुवे । कठिचेलि। और्विगोत्रा॥ आत्रेयिमता। आङ्गिहता। इत्यत्र “ड्यः" [६४] इति हस्वः॥ आङ्गि। इत्यत्राङ्गस्य प्राच्यत्वाद् "द्रेर' [६. १. १२३] इत्यादिनॊ नाणो लुप् ॥
भोगवतिबुवा । गौरिमतिबुवा । इत्यत्र “भोगवद्"[६५] इत्यादिना ह्रस्वः॥ स्त्रितराः स्त्रीतराः । अत्र "नवैक" [६६] इत्यादिना वा ह्रस्वः ॥ पङ्गुब्रुवा पब्रुवा। इत्यत्र “ऊङः” [६७] इति वा ह्रस्वः ॥ महाकरज्ञान्स्वमहाविशिष्टान्धृत्वा महापासमिवाथ लाटः । युधे महद्धाससमैः ससज्जामहत्करज्ञैरमहद्विशिष्टैः ॥ ५७॥
५७. अथ लाटो युधे ससज्ज । किं कृत्वा । स्वमहाविशिष्टान्स्वान्स्वकीयान्महतां पितृपितामहादीनां वृद्धनृपाणां विशिष्टान्प्रधानानि महाघासमिव महतोरण्यादेस्तृणमिव धूत्वा युद्धान्निषेधतो निराकृत्येत्यर्थः । किंभूतान् । महतां राज्यलक्ष्म्यादिना बृहतां राज्ञां करो दण्डो महाकरस्तं जानन्ति ये तान्महाकरज्ञान्महाराजानां यो यस्य करो दीयते तद्वेदिनः । कैः सह ससज्ज । अमहद्विशिष्टैः पाश्चात्यैः प्रधानैः। किंभूतैः। महद्वाससमैनिःसत्त्वान्महारण्यादिसत्कघासतुल्यैः । तथामहत्करज्ञैराधुनिकत्वान्महतां राज्ञां दण्डमविद्वद्भिः । महाविशिष्टतिरस्कारोक्त्या महाविशिष्टकृतं महारिष्टसूचकं स्खलनरूपमनिमित्तमस्य ध्वनितम् ॥
महाकर महत्कर । महाघासम् महद्धास । महाविशिष्टान् महद्विशिष्टैः । अत्र "महतः कर' [६८] इत्यादिना वा डा अन्तादेशः ॥ - १ ए सी 'टा धू. २ ए सी समै स.
१ ए सी सिरेत. २ ए सी डी यिमाता।. ३ बी ङ्गिहिता ।. ४ ए सी डी नानणो ५ ए सी डी स्वः ॥... म. ६ सी तृमंपि. ७ सी श्चात्यै प्र. ८ बी मैनिःस. ९ बी हाविशिष्ट. १० ए सी हामक. ११ ए सी वा ड्या अ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org