SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४३५ [है० ३.१.१५६.] पञ्चमः सर्गः । सोस्युर्वतः पद्मनाभो नूयतासिभिराकृतः । इन्दुमौलिं शूलपाणिं स्पृष्ट्वा नत्वेति तुष्टुवे ॥ १३३ ॥ १३३. स्पष्टः । किंतु । उद्यत ऊर्वीकृतोसियेन सोस्युद्यतः । प्रजापालकत्वात्पद्मनाभो नु विष्णुरिव । इन्दुमौलिं सोमनाथलिङ्गं स्पृष्ट्वा हस्तेन संस्पृश्य ॥ उद्यतासिभिः अस्युद्यतः । अत्र “प्रहरणात्" [१५४] इति क्तान्तं वा प्राग्निपतेत् ॥ इन्दुमौलिम् । पद्मनाभः ॥ प्रहरणात् । शूलपाणिम् । अत्र "न सप्तमी" [१५५] इत्यादिना सप्तम्यन्तस्य न प्राग्निपातः ॥ यस्त्वां श्रीकण्ठ नौत्यातः कण्ठेगडुररुःशिराः । भवत्यगडुकण्ठः सोशिरस्यरुरपि क्षणात् ॥ १३४ ॥ १३४. श्रीकण्ठ हे शंभो गडुणं कण्ठे यस्य स कण्ठेगडुर्गण्डमालामहारोगान्वितस्तथारुणं शिरस्यस्य सोरुःशिराश्च । उपलक्षणत्वादन्यैरपि रोगैर्युक्तश्च सन्नार्तो रोगपीडितो नरो यस्त्वां नौति स्तौति सक्षणादगडुकण्ठोशिरस्यरुरपि । अपिः समुच्चये । उपलक्षणत्वादन्यरोगविमुक्तश्च भवति ॥ कण्ठेगडुः गडकण्ठः । शिरस्यरुः अरुःशिराः । अत्र “गड्वादिभ्यः" [१५६] इति सप्तम्यन्तं वा प्राग्निपतेत् ॥ १ सी द्यता. १ ए बी सी डी ऊर्तीकृ. २ सी धवः । प्र. ३ डी भो वि. ४ ए सी डी नाभम् । प्र. ५ सी कन्ते य. ६ बी शिरोः । अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy