________________
४३४
ध्याश्रयमहाकाव्ये
[मूलराजः]
त्वात्सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः । व्यन्याः ॥ उभयोस्तु सर्वादित्वे स्पर्धे परस्य पूर्वनिपातः । ब्यन्याः ॥
कृत्ताङ्गुलीकम् । इत्यत्रं "क्ताः" [१५१] इति क्तान्तस्य प्राग्निपातः ॥ क्तान्तस्य विशेषणत्वात्पूर्वेण सिध्यति विशेष्यार्थं तु वचनम् । अङ्गुल्यां कृत्तमनेन कृत्ताङ्गुलीकम् । स्पर्धे परत्वार्थ च । कृतोपरिपुनिग्रहे ॥ बहुवचनं व्याप्त्यर्थम् । तेन कृतप्रिये । इत्यत्र परेणापि स्पर्धे क्वान्तस्यैव प्राग्निपातः ॥
जाति । पाणिगृहीतीभिः गृहीतपाणिभिः ॥ काले । अजन्मजातैः जातजन्मभिः ॥ सुखादि। सुखयातान् यातसुखान् । दुःखहीनः हीनदुःखान् इत्यत्र “जाति" [१५२] इत्यादिना जात्यादेर्वा प्राग्निपातः ॥
प्रजया पुत्रजातो नु तेजोम्यन्याहितोथ सः। प्रभासं जातपुत्रैवंगात्मीतैराहिताग्निभिः ॥ १३२ ॥
१३२. अथ स मूलराजो जातपुत्रैॠत्पन्नतनयैरिव प्रीतैदैत्यवधातुष्टैराहिताग्निभिरग्निहोत्रिभिर्द्विजैः सह प्रभासं तीर्थमगात् । कीदृक् । प्रजया कृत्वा जातः पुत्रो येन(यस्य ?) स पुत्रजातो नु प्रजा पुत्रमिव पश्यन्नित्यर्थः । तथा तेजोग्निना प्रतापवह्निना कृत्वाहितः प्रज्वालितोग्निर्येन सोन्याहितोग्निचित्तुल्यो जाज्वलत्प्रताप इत्यर्थः ।।
आहिताग्निमिः अग्याहितः । जातपुत्रैः पुत्रजातः । इत्यत्र “आहितान्यादिषु" [१५३] इति क्तान्तस्य वा प्राग्निपातः ॥
१ डी 'त्र तान्त. २ बी वेणापि सि. ३ बी °ल । आज. ४ ए त्रैरुत्प. सी त्रैकवृत्प. ५ ए सी डी ग्निचत्तु. ६ ए प्राहि. ७ ए सी डी मिः आम्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org