________________
४१८
व्याश्रयमहाकाव्ये
[ मूलराजः ]
शरूयसी क्षुरिकाखौ स्वसोदय नु स्वकीयौ भगिनीमिव सोदर्यमिव चादरादित्यर्थः । बिभ्राणौ । कीदृशौ शरूयसी । यमपुत्रौ तु यमस्य सुता च पुत्रश्च पुत्राविव मृत्युहेतुत्व कृष्णत्वादिना यमपुत्रिकापुत्रतुल्यौ ||
।
तौ । इत्यत्र " त्यदादिः " [ १२० ] इति त्यदादेः शेषः ॥
I
भ्रात्रोः । सोदयौं । पुत्रौ । सुतयोः । इत्यत्र “भ्रातृ" [ १२१ ] इत्यादिना भ्रात्रपुत्रार्थयोः शेषः ॥
कुमारमातापितरौ प्रद्युम्नपितरौ च ते ।
क्रुद्धाद्येति चौलुक्यो ब्रुवन्दैत्यमपातयत् ॥ १०२ ॥
१०२. चौलुक्यो दैत्य पातयद्गजाद्भूमाव भ्रंशयत् । कीदृक्सन् । ब्रुवन् । किमित्याह । कुमारमातापितरौ गौरीश्वरौ प्रद्युम्नपितरौ च लक्ष्मीविष्णू च ते तवाद्य क्रुद्धाविति ॥
पितरौ । इत्यत्र “पिता मात्रा वा " [ १२२ ] इति पितुर्वा शेषः ॥ पक्षे | मातापितरौ । मातुरच्यत्वात्पूर्वनिपातः ॥
स तं शिर्वश्वशुरयोः पुत्रो नूत्पत्य दुर्धरः । आन्दिश्वश्रूश्वशुरं बबन्धेभवरत्रया ॥ १०३ ॥
१०३. स मूलराजस्तं ग्राहारिभिभवरत्रया बबन्ध । किं कृत्वा । दुर्धरो महाबलत्वात्केनापि धर्तुमशक्यः सन् शुरश्च श्वश्रूश्व श्वशुरौ शिवस्य शंभो: श्वशुरौ शिवश्वशुरौ तयोर्हिमाद्रिमेनयोः पुत्रो नु मैनाका
१ ए सी वद्वेति.
१ सी दारे: शे. 'क्ष्मीतिष्णू, ५ ए सी
Jain Education International
२ बी वस्वसुर".
२ एसी दर्यो । पु . ३ सी 'ममातभ्रं सुर. ६ बी डी वसुरौ, ७ ए सी 'नयो पु
For Private & Personal Use Only
४ ए सी
www.jainelibrary.org