SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये नृसिंहः पूर्वपुरुषो वपेरार्कः स तेजसा । हन्तुं प्रथमदैत्यं नु डुढौके चरमासुरम् ॥ ८२ ॥ ८२. स मूलराजश्चरमासुरं ग्राहारिं हन्तुं डुढौके । कीदृक्सन् । नृसिंहो नरश्रेष्ठोत एव तेजसा प्रतापेनापरार्को द्वितीयादित्यः । पूर्वपुरुषो नु यथा प्रथमपुरुषो विष्णुर्नृसिंहो नरसिंहरूपधारी सन् प्रथमदैत्यं नु हिरण्यकशिपुमिव हन्तुं डुढौके || मध्यलोकपतिर्वीरपुमान्मध्यमपार्थवत् । ४०८ अजघन्यौजसारेभे सोसमानरणोत्सवम् ॥ ८३ ॥ ८३. मध्यलोकपतिर्मर्त्यलोकस्वामी स मूलराजो समानरणोत्सवं निरुपमं युद्धमारेभे । यतो वीरपुमाञ् शूरनरस्तथाजघन्यौज सोत्कृष्टबलेन कृत्वा मध्यमपार्थवन्मध्यमस्तृतीयो यः पार्थः पाण्डवोर्जुनस्तत्तुल्यः ॥ वीरपूर्वाः श्रेणिकृतास्तेन पूगकृताः परे । [ मूलराज : ] श्रेणिमतः पूगमतो न्वेकोप्यैक्षि स तैर्भयात् ॥ ८४ ॥ ८४. तेन मूलराजेन पूर्वे च ते वीराश्च वीरपूर्वाः प्रथमशूराः परेपूगौ: पूगाः कृताः पूगकृताः समूहीकृता मृत्युभयेनान्योन्याश्रयणात्संयुक्तीकृता इत्यर्थः । कीदृशाः सन्तः । अश्रेणयः श्रेणयः कृताः श्रेणिकृता युद्धार्थं प्राहारिणा पङ्कीकृताः । स मूलराज एकोपि तैः परैर्भयादेक्षि । कीदृश: । अश्रेणिः श्रेणिर्मतः संमतः श्रेणिमतो नु । नुरत्रापि योज्यः । पङ्कीभूत इवेत्यर्थः । एवं पूगमतो नु समूहीभूत इवेत्यर्थः ॥ 19 १ सी परां कस. २ ए सी गित:. १ ए बी सी कसिपु . २ ए सी पार्थोडो. ३ ए सी 'गाः कृ ४ ए सी य थे. ५ ए सी द्धार्थ या ६ ए सी डी कृता स ७ बी 'णिमत: • ८ बी इत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy