SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराज : ] एकान्नविंशम् । एकान्नपञ्चाशत् । इत्यत्र “नविंशति" [ ६९ ] इत्यादिना तत्पुरुष एकशब्दस्य चादन्तः ॥ यूपदारु । इत्यत्र “चतुर्थी प्रकृत्या " [ ७०] इति तत्पुरुषः ॥ ३९८ यशोहितः । श्रीसुख । इत्यत्र “हितादिभिः " [ ७१] इति तत्पुरुषः ॥ जयार्थमत्रं तन्वानेस्मिन्न मृत्युभयेपतन् । सिंहभीता इवैणाः केप्यल्पान्मुक्ताः परःशताः ॥ ६३ ॥ ६३. सिंहाद्भीता ऐणा इव । केपीत्यत्रापिभिन्नक्रमे । परःशता अपि शतात्परेपि बहवोपीत्यर्थः । के भटा मृत्युभये मरणाद्भीतौ नापतन् । यतोल्पान्मुक्ताः स्तोकाच्छुटिताः । क्व सति । अस्मिन् ग्राहारौ । कीदृशे । जयार्थमत्रं शस्त्राणि तन्वाने || 3 1 असौ परःसहस्रारिनृणामुज्जासितं दिशन् । उद्यच्छरोभी राहूणां ज्ञानं भानोरजीजनत् ॥ ६४ ॥ ६४. असौ प्राहारी राहूणां ज्ञानं सादृश्याद्राहुभिः करणैः प्रवर्तनम् । यद्वा । अरित्वेन राहावत्यन्तं विरक्तत्वाच्चित्तभ्रान्त्याने कराहुरूपेण प्रतिपत्तिं भानो खेरजीजनद्रसनार्थमागच्छतामनेकेषां राहूणां शङ्कां भानोरुत्पादितवानित्यर्थः । कैः कृत्वा । उद्यच्छिरोभिः प्रहार - वशोवच्छलन्मस्तकैः । यतः कीदृक् । सहस्रात्परे परः सहस्रा बहवो येरीणां नरः पुरुषास्तेषां कर्मणामुज्जासितं हिंसां दिशन् कुर्वन् ॥ ε जयार्थम् । इत्यत्र “तदर्थार्थेन " [ ७२] इति तत्पुरुषः ॥ मृत्युभये । सिंहभीताः । इत्यत्र “पञ्चमी भयाद्यैः” [७३] इति तत्पुरुषः ॥ १ ए सी डी 'श्चात् . ४ बी सी शङ्का भा ५ सी डी २ सी एता इ. ३ ए सी डी 'टिता क. स्तेपा क े ६ सी 'सित हिं . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy