________________
३९६
व्याश्रयमहाकाव्ये
[मूलराजः]
र्धन कृताश्चतस्रोध्यर्धतिस्रः । अक्षौहिणीशब्दो हस्ति २१८७० रथ २१८७० अश्व ६५६१० पदाति १०९३५० एवंप्रमाणचतुरङ्गबलवाचकोप्यत्र म्लेच्छरित्युक्तेरेकदेशे १०९३५० इतिमानेषु पत्तिज्वेव वर्तते । ततस्त्रिलक्षी व्यशीतिसहस्री पञ्चविंशत्यधिकसप्तशतीप्रमाणास्तात्पर्येणातिभूयिष्ठम्लेच्छपत्तिमयीरित्यर्थः॥
तस्मान्मासावरैर्मासपूर्वैर्वा योधिभिर्नूपैः।
अस्त्रभिन्नारिवान्तामृक्पकोभूत्पादहारकः ॥ ६ ॥ ६०. अस्त्रैः करणैर्भिन्ना विदारिता येरयस्तैः कर्तृभिर्वान्तानि व्युसृष्टानि यान्यमृद्धि रक्तानि तेषां पङ्कः कर्दमोभूत् । कीदृक् । नृपः कर्तृभिः पादैहियते "बहुलम्" [५.१.२] इति कर्मणि णके पादहारकश्चरणापसार्यः । किंभूतैः । अस्माद्वाहारेः सकाशान्मासावरैर्मासेन लघुभि
सपूर्वैर्वा । वा समुच्चये । मासेन प्रथमैश्च । तथा योधिभिः सुभटान्वितैरवश्यं युध्यमानैर्वा । आवश्यके णिनिः ॥
घनघात्यान्परान्वाष्पच्छेद्यवघ्नन्नमृग्नदीः। काकपेयाः स एकानविंशं भूतं नु निर्ममे ॥६१॥ ६१. स ग्राहारिरसृग्नदी रक्तसिन्धूः काकपेया निर्ममे पूर्णाश्चकारेत्यर्थः । कीदृक्सन् । घनघात्यानत्यन्तं दृढाङ्गत्वाद्धनैर्लाहमुंद्रैर्हन्तुं शक्यानत्यन्तायासेन घात्यानित्यर्थः । पराञ् शत्रून् बाष्पच्छेद्यवद्वाष्पैः श्वासैश्छेद्यांस्तृणादीनिव नन्नत्यन्तमनायासेन हिंसन्नित्यर्थः । उत्प्रेक्ष्यते । एकानविंशमेकेन न विंशतिरेकानविंशतिस्तस्याः पूरणं भूतं नु किल । सुंर १ असुर २ यक्ष ३ राक्षस ४ कश्मल ५ भस्मक ६ पितृ ७
१ए सी श्चतुस्रो'. २ ए सी लक्षीं घ्या. डी लक्षी घ्याशीति'. ३ सी णाति भू. ४ ए सी कासान्मा. ५ ए सी डी वास'. ६ बी सी णिनि ॥. ७ बी "मुद्गुरै . ८ सी पैः स्वासै'. ९ए सी प्रेक्षते ।. १० ए सी सुरा र असुरा २ य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org