SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] तावद्धिमांशुरानन्दी तावद्हेमाद्रिरुन्नतः । वाग्वादिनोत्र नेक्ष्यन्ते यावद्विष्वग्हिता नराः ॥ ४०॥ ४०. हिमांशुश्चन्द्रस्तावदानन्दी जगतामाहादयिता । तथा हेमाद्रिमेरुस्तावदुन्नत उच्चो यावदत्र पुरे नराः सज्जना नेक्ष्यन्ते । किंभूताः । वाग्वादिनो वाचा सत्यमितमधुरया वाण्या ह्लादिनः सकलपृथ्व्या आनन्दनशीलाः । तथा विष्वम्हिता विष्वक् समंततः सर्वैः प्रकारैः सर्वे' च हिता अनुकूलाः । एतेनोन्नतमनस्कत्वसूचा । उन्नताशया हि विष्वरिहताः स्युः । तुच्छाशयास्तु कदाचित्कार्यवशेन हिताः कदाचिन्नेति । वाग्धादिविष्वग्घितानामत्रत्यजनानां दर्शने सुधांशुमेरू आनन्दकोन्नतावपि न किंचित्प्रतिभासेते इत्यर्थः ॥ यशःकृतककुब्भासैङ्कितिप्रथितैर्नृपैः । ककुब्हस्तिबलैरत्र तुराषाड्डियमश्नुते ॥ ४१ ॥ ४१. अत्र पुरे नृपैर्वनराजादिभिहेतुभिस्तुराषाडिन्द्रो व्हियमश्नुते लजते । कीदृशैः । ककुव्हस्तिबलैः । दिग्गजपराक्रमैरत एव द्वितिप्रथितैः । द्विषां शत्रूणां हत्या हननेन सर्वत्र विख्यातैरत एव च यशसा कीर्त्या कृतः ककुभां दिशां हासो लक्षणयोड्योतो यैस्तैः । अत्यनृपान्मनुष्यानपि बलादिना स्वस्मादधिकान् दृष्ट्वेन्द्रो लज्जत इत्यर्थः ॥ अनज्झलिव सोहल्भ्यां धर्मार्थाभ्यां युतो जनः । निरीक्ष्यतेत्र निष्पापं चेष्टयन् हितकाम्यया ॥ ४२ ॥ ४२. अत्र पुरे स सर्वत्र प्रसिद्धो जनो लोको हितकाम्ययैहिकपा१ एफ उच्चस्तरो या. २ सी डी पृथिव्यां आ. ३ सी न्दशी. ४ एफ् घु हिताश्चानु. ५ एफ हन. ६ बीत्र नृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy