SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ [ है० २.४.९६.] चतुर्थः सर्गः । निस्तिरस्करिणिराददेनतिब्रह्मबन्धुरयमुष्णगुप्रभः । वर्म पेष्टुमरिमर्द्धपिप्पलीवन्नृपः सहमहीयसी भुवा ॥ ९३॥ ९३. अयं नृपो मूलराजोर्धपिप्पलीवत् खण्डपिप्पलीमिवारिं पाहारि पेष्टुं हिंसितुं वर्माददे। कीदृक् । निस्तिरस्कैरिणिस्तिरस्करोतीत्येवंशीला णिनि बाहुलकादृयभावे तिरस्करिण्या जर्वन्या निष्क्रान्तः । तथानतिब्रह्मबन्धुब्रह्मबन्ध्वो जातिमात्रेण ब्राह्मण्योतिधार्मिकत्वात्ता अपि नातिक्रान्तः । तथोष्णगुप्रभः प्रतापेनार्कसमोत एव भुवा भूम्या कृत्वा सह महीयस्यातिमहत्या वर्तते यः स सहमहीयसी । अतिमहाप्रमाणोर्वीक इत्यर्थः ॥ उष्णगुप्रभः । निस्तिरस्करिणिः । अनतिब्रह्मबन्धुः । इत्यत्र "गोश्चान्ते" [९६]इत्यादिना ह्रस्वः ॥ अनंशिसमासे यो बहुव्रीहाविति किम् । अर्धपिप्पली। सहमहीयसी । थोद्धता छन्दः॥ स्फूर्जत्सारधि विप्रबन्धुसुहृदा तद्ब्रह्मबन्धूप्रियं लक्ष्मीवल्लभलक्ष्मिपुत्रसदृशा तेनाशु सज्जीकृतम् । गार्गीपुत्रमहेन्द्रसुतयुतैः कारीषगन्धीपतिप्रायैः श्रीसदनैर्नृपैः सह बलं भ्रूभङ्गभीमाननैः ॥ ९४ ॥ ९४. तेन मूलराजेन तत्स्वकीयं बलमाशु सज्जीकृतं सन्नाहितमित्यर्थः । किंभूतेन । लक्ष्मीवल्लभो विष्णुः लक्ष्मिपुत्रः कामः । ताभ्यां १ ए सी स्करणि. २ ए सी नैनृपैः. १ ए सी डी वत्पिप्प. २ सी सिव'. ३ ए सी स्करणि'. ४ ए सी वण्या नि. ५ डी निःक्रान्तः. ६ ए सी स्करणिः ।. ७ ए सी "गोस्वान्ते'. ८ ए सी रतोद्ध. डी रतो च्छन्दः. ९ ए सी डी पुत्रका. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy