SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३५५ है० २.४.८४.] चतुर्थः सर्गः । कौमुदगन्धीपतिः पुरोभूत्कौमुदगन्धीपुत्र आददेतः । कौमुदगन्ध्यापतिध्वजिन्यां कौमुदगन्धीबन्धुभिश्च वर्म॥८६॥ ८६. कौमुद्गन्ध्या कुमुदगन्धेः कुमुदगन्धस्य वापत्यं स्त्री राज्ञी पतिः स्वामिनी यस्या: सा या ध्वजिनी चमूस्तस्यां कौमुद्गन्धीपतिः कौमुदगन्ध्याया राज्या भर्ता पुरो प्राहारिसैन्यस्याग्रतो यतोभूदतोस्माद्धेतोः कौमुदगन्धीपुत्रः कौमुदगन्ध्याङ्गजो वर्माददे जग्राह । तथा कौमुदगन्ध्या राज्ञी बन्धुर्येषां तैश्च कर्तृभिर्वर्माददे गृहीतम् । आदद इत्यत्र कर्तरि कर्मणि चात्मनेपदम् । अत्र च ध्वजिन्या राज्ञश्च स्त्रीपतित्वोक्त्या पुत्रस्य मातृपुत्रत्वोक्त्या च स्त्रिया इवाग्रसैन्यस्य भावी पराजयो व्याजि ॥ कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । इत्यत्र “स्था पुत्र" [८३] इत्यादिनाबन्तष्य ईच् ॥ तत्पुरुष इति किम् । कौमुदगन्ध्यापतिध्वजिन्याम् ॥ कौमुदगन्धीबन्धुभिः । इत्यत्र “बन्धौ” [८४] इत्यादिनाबन्तष्य ईच् ॥ सौगन्धीमात आत्तधन्वा पाङ्कजगन्धीमातृभिः सहाभूत् । सौगन्ध्यामातदर्शनाद्यत्पाङ्कजगन्ध्यामातरोत्यहृष्यन् ॥ ८७ ॥ ८७. सौगन्ध्यामातदर्शनात्सौगन्ध्या माता येषां भटानां तदर्शनात्पाङ्कजगन्ध्या माता येषां ते पाङ्कजगन्ध्यामातरो भटा यद्यस्माद्धेतोरैत्यहृष्यन्सहायिलाभात्तुष्टाः । अतो हेतोः सौगन्धीमात: सौगन्ध्याजननीको भट आत्तधन्वा सन्पाङ्कजगन्धीमातृभिः पाङ्कजगन्ध्याजननी १ ए सी भूकौमु°. बी भूत्कोमु. २ डी रोभ्यह. १बी यस्या सा. २ ए सीधीपुः कौ. ३ डी यो व्यजि. ४ डी रभ्यह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy