________________
[है० २.४.३४.] चतुर्थः सर्गः।
३३५ धूली धूलिः । इत्यत्र “इतोक्त्यर्थात्” [३२] इति वा डीः ॥ अस्यादिति किम् । हति । वृष्टया । ज्यानिम् ॥ अन्ये त्वञ्चति-अति-अंहति-शकटि-शास्त्रिशारि-तारि-अहि-कपि-मुनि-रात्रि-यष्टिभ्यः कटिश्रोण्यादिप्राण्यङ्गवाचिभ्यः क्तिवर्जितकृदन्तेभ्यश्चेकारान्तेभ्य इच्छन्ति नान्येभ्यस्तन्मते सुगन्ध्येत्यादिषु डीन स्यात् । क्तिमात्रवर्जनाच्च ज्यानिप्रभृतिषु न निषेधः॥ पद्धतीषु पद्धतेः । इत्यत्र “पद्धतेः" [३३] इति वा डीः ॥
तदेवं षडिधबलमीलनमुक्त्वा ग्राहारेः स्वयं प्रस्थानं वृत्तपञ्चकेनाह। ग्राहरिपुः शक्तिमान्स पव्या शक्त्या शक्तीभृन्निभः प्रतस्थे । पटुभिः प्रपिपासुभिर्नु वायुं खरुभिः पाण्डुभिरश्वधोरणीभिः॥५४॥
५४. स ग्राहरिपुरश्वधोरणीभिः कृत्वा प्रतस्थे रणाय प्राचालीत् । कीहक्सन् । शक्तिमान् । शक्तयः प्रभुमत्रोत्साहपूर्वास्तिस्रः । शक्तिः सामर्थ्य वा । तद्वान् । तथा पटव्या तीक्ष्णया शयास्त्रभेदेन कृत्वा शक्तीभृन्निभः कार्तिकेयतुल्यः । किंभूताभिः । खरुभिः
खैरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च । इति वचनात्खरुर्दर्पस्तद्युक्तोप्युपचारादुच्यते । ततो दर्पवतीभिरत एव पटुभिर्दक्षाभिरत एव चातिवेगवत्त्वेनोत्प्रेक्ष्यते । वायुं वातं प्रपिपासुभिर्नु वेगावातानुव्रजनेन वातं पातुमिच्छन्तीभिरिव वातवद्वेगेन गच्छन्तीभिरित्यर्थः । तथा पाण्डुभिः श्वेताभिः ॥
शक्ती शक्त्या । इत्यत्र "शक्तेः शस्त्रे" [३४] इति वा डीः ॥ शस्त्र इति किम् । शक्तिमान् ॥ __ १ ए सी त्या सक्ती'. २ ए सी वायु ख’.
१ सी धूलि . २ बी टि शस्त्रि. सी टि-शाकटि-शा. ३ ए सी गन्धेत्या. ४ बी सी देव घ. ५ ए बी सी शक्ति सा. ६ बी त्या अभे". ७ ए खरुः श्वा. सी डी खरं इवा. ८ डी द्वातोनु. ९ वी तद्वे. १० एसी डीम् । भक्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org