SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३३४ व्याश्रयमहाकाव्ये [ मूलराजः ] हारिसमीपं प्राप । कीदृक्सती । जानपदां सुराष्ट्रादेशोद्भवां सुरां मद्यं पात्री पिवन्त्यत एवं शोण्या रक्तयाक्षिभासा नेत्रज्योतिषा कैवरा कर्बुरा । तथा रणकामुका युद्धेच्छुरत एव रोपशोणा क्रोधादारतात एव च कुशायोमिश्रं काष्ठमयं शस्त्रं सह तया वर्तते या सा । एतेन श्रेणिबलागमनोक्तिः । श्रेणिबलं तत्रादिकम् ॥ भाजी | गोणीम् । नागीभिः । स्थलीभिः । कुण्डि । कालीम् । कुशी । कामुकि । अधिकटि । कबरी । इत्यन्त्र " भाजगोण" [३०] इत्यादिना ङीः ॥ अन्यत्र | भाजा । गोणे । नागे । स्थले । कुण्डे । काले । सकुशा । कामुका । कबरा ॥ कटा । इति स्वयं ज्ञेयम् ॥ जनपदशब्दादपि वृत्ताविच्छत्यन्यः । जानपदीं वृत्तिम् । वृत्तेरन्यत्र जानपदां सुराम् ॥ शोण्या शोणा । इत्यत्र " न वा शोणादेः " [३१] इति वा ङीः ॥ हयखुरहतिजन्मधूलिरुच्चैरथधूलीनिचिता मदाम्बुवृष्ट्या | ज्योनिं गजपद्धतेः सुगन्ध्या परितः प्राप समस्तपद्धतीषु ॥ ५३ ॥ ५३. षडिधेपि प्राहारिसैन्ये मिलति रथधूलीनिचिता स्यन्दनरेणुभिः सान्द्रीकृतोच्चैरतिशयिता हयखुरहतिजन्मधूलिरश्वशफघातोत्था रेणुः समस्तपद्धतीषु सर्वमार्गेषु परितो ज्यानिं क्षयं प्राप । कया कृत्वा गजपद्धतेर्हस्तिपङ्क्तेः सक्तया सुगन्ध्या नवोद्भेदात्सुरभ्या मदाम्बुवृष्ट्या । अम्बुवृष्ट्या हि धूलि : शाम्यति ।। १ सी 'निविश म २ ए सी ज्यानं ग १ ए सी हारीस .. ५ सी शोण्या । ३° नभोद्धे. २ सी व शाण्या. ३ बी कर्बु. ६ बी मिलिते र. ७ सी 'तोत्रे. Jain Education International For Private & Personal Use Only ४ ए 'त्र जन. ८ ए सी डी www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy